पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

458 लक्ष्मणहितवचनम् सुमहान्त्यपि भृतानि देवाच, पुरुषर्षभ ! न दैवस्य प्रमुञ्चन्ति * सर्वभूतादिदेहिनः ॥ ११ ॥ दैवस्य प्रमुञ्चन्तीति। कर्मणो वशं न मुञ्चन्तीत्यर्थः ॥ ११ ॥ अरण्यकाण्डः शक्रादिष्वपि देवेषु वर्तमानौ नयानयौ । श्रूयेते, नरशार्दूल ! न त्वं शोचितुमर्हसि ॥ १२ ॥ नयानयौ -- तन्मूलसुखदुःखे इत्यर्थः ।। १२ ।। 2 नष्टायामपि वैदेह्यां' हृतायामपि चानघ ! शोचितुं नार्हसे, वीर ! यथाऽन्यः प्राकृतस्तथा ॥ १३ ॥ त्वद्विधा न हि शोचन्ति सततं ' सत्यदर्शिनः । सुमहत्स्वपि कृच्छ्रेषु रामानिर्विष्णदर्शनाः ।। १४ ।। अनिर्विण्णदर्शना:--निर्वाणो नाशः, अनिर्विण्णं – अविनष्टं दर्शनं--कृत्याकृत्यतत्त्वज्ञानं येषां ते तथा ॥ १४ ॥ तखतो हि, नरश्रेष्ठ ! बुद्धया समनुचिन्तय । बुद्धया युक्ता महाप्राज्ञाः विजानन्ति शुभाशुभे ॥ १५ ॥ तत्त्वतः चिन्तयेति । युक्तायुक्तकृत्याकृत्यमिति शेषः ।।

  • सुमहान्ति भूतानि -- मान्धातृनलप्रभृतिमहाजना अपि सर्वभूतादिदेहिनः-

सर्वभूतानि आदिदेहोऽस्यास्तीति तथा, सर्वभूतान्तर्यामिण इत्यर्थः, दैवस्य -- परमात्मनः पचम्यथें षष्टी, न प्रमुखन्ति सर्वेऽपि तत्संकल्पं नातिकामन्तीत्यर्थ:- गो. किं पुनर्वक्तव्यं देहिनः सर्वभूतानि - देहवन्ति सर्वभूतानि न मुञ्चन्तीति । देहिन इति पुंस्त्वमार्षम् ।-ति. सुमहान्ति भूतानि – पथिव्यादीनि देहिनः अतिप्रवृद्धाः, देवाश्च दैवस्य नित्यप्रमोदविशिष्टस्य सर्वभूतस्य सर्वाणि भूतानि यस्मात् तस्य ब्रह्मणः न प्रमुबन्ति -- तदाज्ञापितं न जहति-रा. व्यथितु-ज. 2 मृताया-ज. 3 नष्टायामपि राघव-ज.

  • समदर्शना:- ङ.

सर्वदर्शना:-ज.