पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

454 लक्ष्मणप्रार्थना [अरण्यकाण्ड: मद्दितीयः । समुद्रादिविचयनार्थं परमर्षिभिः सहायैरित्युक्तम् ॥ १४ ॥ न चेत् साम्ना प्रदास्यन्तीति । जीवन्त्या मृताया वाऽपि त्रैलोक्ये क्वचित् अवर्ज्यावस्थानस्य प्राप्तत्वात् लोकेश्वरे: तद्दानं प्राप्तम् । तद्यदि अस्मादन्वेषणाशक्यत्वे तु न कृतं स्यात् साम्ना, ततः पश्चादेव तद्विषयकोपः प्राप्तकाल इत्यर्थः ।।१५।। शीलेन साम्ना विनयेन सीतां नयेन न प्राप्स्यसि चेन्नरेन्द्र !

  • 2

'समुत्सादय हेमपुङ्खै' महेन्द्रवज्रप्रतिमैः शरौघैः ॥ १६ ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे पञ्चषष्टितमः सर्गः ततः उक्तार्थस्योपसंहार: - शीलेनेत्यादि । शीलं- सुचरित्रम् । साम- साधुवादः । विनय:- प्रश्रयः । नयः-नीतिः । अतर्क्य मानः सर्गः ।। १६१२ ।। इति श्रीमद्रामायणामृतकतकटीकाय अरण्यकाण्डे पञ्चषष्टितमः सर्ग:

  • समुत्पादय -- विवक्षितकार्यमिति शेषः । समुत्सादयेति पाठे लोकानिति शेषः ।

एव लक्ष्मणप्रसादेन रामकोपशान्तिप्रपञ्चनाद रावणाराधिततत्पक्षपातिरुद्रसङ्कल्पात रामकोपो भन्न इति वदन् मूर्ख इत्यवगन्तव्यः-गो. एवं हि सति अग्रे रावणवधोऽपि असकृतः स्यादितितदाशयः । । शिवेन-कु. 2 S समुत्पादय, समुत्पादय-ड.