पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

446 राम रौद्रावेशः 'यद्यद्विमूर्तिमत् सत्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसंभवम् ।।' (अरण्यकाण्ड: इतिन्यायेन स्वस्य जगत्कारण श्रीमदादिब्रह्मणः तेजोंऽशत्वस्यानुमानतः स्ववसाचात्, अपरोक्षमनुष्योपाधितो मनुष्यभावानपायाच्च सर्वात्मना वास्तवस्व कब्रह्मत्वमतौ रावणस्य देवावध्यतः स्वावताराप्रयोजनप्रसङ्गात्, तमश्शक्तया ब्रह्मत्वतत्प्रयुक्तसार्वज्ञ्यादिकं कार्यार्थं भगवदिच्छया आवृत मेवेति सर्वमुक्तं वक्ष्यमाणं च सूपपन्नम् ॥ ५६ ।। मां प्राप्य हि गुणो दोषः संवृत्तः पश्य, लक्ष्मण ||५७|| अद्यैव सर्वभूतानां रक्षसामभवाय च |

  • संहृत्यैव शशिज्योत्स्नां महान् सूर्य इवोदितः ॥ ५८ ।।

संहृत्यैव गुणान् सर्वान् मम तेजः प्रकाशते । - अथ निस्तुलाधिकं निजपौरुष मेवावलम्बनीयमित्याह – मां प्राप्येत्यादि । गुणः – लोकप्रसिद्धो गुणः घर्मावलम्बनमृदुत्वादिः मां प्राप्य दोषः संवृत्तः -अनिष्टसाघनत्वेन संवृत्तः । अतः इमं हित्वा मामकं पौरुषावलम्बनवैभव पश्येत्याह- पश्य लक्ष्मणेत्यादि । अद्य मम तेज एव प्रकाशत इत्यन्वयः । किमर्थमित्यतः - सर्वभूताना- मभवायेत्यादि । भवः - उत्पत्तिः, अभवः -नाशः । शशिज्योत्स्नां- तत्तुल्यां, मामक मृदुत्वादिगुणान् संहृत्यैव युगान्तकाले उदितः सूर्य इव मम तेज एवाद्य प्रकाशते ।। ५८ ॥

--स
  • यथा उदित: सूर्यः शशिज्योत्स्ना – शीतलचन्द्रिकां संहृत्यैव प्रकाशते, तथा मम

तेज: गुणान् -मृदुत्वादीन् संहृत्यैव निरस्यैव प्रकाशते-गो. अथवा लोकवत्--- एवं खलु संवृत्तः, पश्य इत्येकं वाक्यम् |