पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शून्याश्रमदर्शनम् अरण्यकाण्ड: नैव सेत्यादि । अहिंसितेति पदम् । चारुहासिनी सा अथवा नूनं अहिंसिता न हिंसितैव । अतः यथा --एवंप्रकारेण कृच्छ्रप्राप्तं मां नूनं उपेक्षितुं नाहति ॥ २९ ॥ 416 1

  • व्यक्तं सा भक्षिता बाला राक्षसैः पिशिताशनैः ।

विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥ ३० ॥ + उक्त एवार्थः स्पष्टीक्रियते--व्यक्तमित्यादि ॥ ३० ॥ 5 नूनं तत् शुभदन्तोष्ठं सुनासं ' चारुकुण्डलम् । पूर्णचन्द्र मिव ग्रस्तं मुखं निष्प्रभतां गतम् ॥ ३१ ॥ निष्प्रभतां गतं इति । मारणादिति शेषः ॥ ३१ ॥ सा हि चम्पकवर्णाभा ग्रीवा ग्रैवेयशोभिता । कोमला विलपन्त्यास्तु कान्ताया भक्षिता 'शुभा ॥ ३२ ॥ उच्यमानविशेषणा सा हि ग्रीवा मक्षितत्यन्वयः ॥ ३२ ॥ ननं विक्षिप्यमाणौ तौ बाहू पछुवकोमलौ । भक्षितौ वेपमानाग्रौ सहस्ताभरणाङ्गदौ ॥ ३३ ॥ गया विरहिता बाला रक्षसां भक्षणाय वै । 6. +' सार्थेनेव " परित्यक्ता भक्षिता बहुबान्धवा ॥ ३४ ॥

  • हिंसितेत्यस्यैव विवरण–व्यक्तमित्यादि ॥ † उक्त एवार्थ:- नैव सा नूनं

इत्यनेनोक्त: अर्थ: ॥ + सार्थेन --पथिकसमुदायेन - गो. वने पथिकसमुदायेन परित्यक्ता या काचित यथा दुष्टमृगादिभि: भक्षिताभ वेत्, तथा बहुबान्धवाऽपि मया विरहिता रक्षसां भक्षणाय परित्यक्ता ॥ 1 विभिन्द्यावानि- ङ. सा वनेऽस्मिन्-ड.. शुभ-ज. " परिभ्रष्टा-ड.. निर्भ-ज. बलात्-ङ,