पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

414 शून्याश्रमदर्शनम् यदि, ताल ! त्वया दृष्टा पक्कतालफलस्तनी । कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ १८ ॥ 16 अरण्यकाण्ड: यदि दृष्टा त्वया सीता, 'जम्बु ! * जम्बुफलोपमाम् । प्रियां यदि विजानीषे निःशङ्कः कथयस्व मे ॥ १९ ॥ 2 अहो त्वं ' कर्णिकाराद्य ' सुपुष्पैः शोभसे भृशम् । कर्णिकार प्रिया साध्वी शंस, दृष्टा प्रिया यदि ॥ २० ॥ + चूतनीपमहासालान् पनसान् कुरवान् धवान् । दाडिमानसनान् गत्वा दृष्ट्वा रामो महायशाः ॥ २१ ॥ 'मल्लिकामाधवीचैव चम्पकान् केतकीस्तथा । 'पृच्छन् रामो वने भ्रान्तः उन्मत्त इव लक्ष्यते ॥ २२ ॥ $ अथवा मृगशाबाक्षीं, मृग ! जानासि मैथिलीम् ? मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ २३ ॥ मृगीभिः सहिता भवेत् इत्यादौ संभावनायां लिङ् । एवं तत्र तत्र संभावनाबीजं तत्तत् किञ्चिद्धर्मसंबन्धः । मृगविप्रेक्षणीत्वमत्र || DIRE साध्वी-ज. परन्तु

  • स्निग्धताऽऽकारेण जम्बूफलौपम्यम्- गो. प्रेमाह्वानसूचकपदेषु जम्बूफल

वाचकमपि कैश्चित् ग्रामीणै: देशभाषात्मकं पदं प्रयुज्यत इत्यप्यवधेयम् ॥ † श्लोक- इयमेकान्वयम्- गो. उन्मत्त इव वस्तुत: नोन्मत्त इत्यर्थ:-ति. लोकेऽप्येतादृशस्थले 'किमयं उन्मत्तवत् प्रलपति' इति स्वरसः प्रयोगो दृश्यत इत्यवधेय- मेतत् । S इति वृक्षान् वृष्ट्वा मृगान् पृच्छति अथेति-मृगवत् विविधं प्रेक्षत इति - मृगविप्रेक्षणी-गो. मृगशाबाक्षीमित्यनेन अवयवसाम्यं, मृगविप्रेक्षणीत्यनेन इन्द्रिय- व्यापारसाम्योच्यत इति भावः ॥ 1 जाम्बूनदसमप्रभा -ज. 5 'वकुलानथ पुन्नागान् चन्दनान् केतकांस्तथा- ज. 3 2 कर्णिकाराङ्ग-ड.. पुष्पित:- ज. 4 प्रियां " गच्छन्-ड..