पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

412 शून्याश्रमदर्शनम् [ अरण्यकाण्डः यत्नात् मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणः ' शोकात् * उन्मत्त इव लक्ष्यते ॥ १० ॥

वृक्षात् वृक्षं प्रधावन् सः गिरेवाद्रिं नदानदीम् । 2 बभूव विलपन् रामः शोकपङ्कार्णवाछुतः ॥ ११ ॥ 3 अपि कच्चित् त्वया दृष्टा सा कदम्बप्रिया प्रिया ? कदम्ब ! यदि जानीषे शंस सीतां शुभाननाम् ।। १२ ।।

  • एतत्सर्वे लोकव्यवहारनटन, भगवतश्चित्स्वरूपस्य, लोके भार्या सर्वतो

प्रियतमेति बोधयितुम् । अत एव मातापितृवियोगो नैतावच्छोककारणम्-ति. श्वशब्देन - वस्तुतस्तु न तादृश: श्रीराम इत्यर्थः । अत एव सीतादीन् प्रति विलापादिकं, सीतान्वेषणसमये सीतामुद्दिश्य वृक्षमृगादीन् प्रति प्रश्नादिकं सर्व श्रीरामेण लोकशिक्षार्थ नटनं कृतमिति प्रदर्शयितुमेव सर्वज्ञेन भगवता श्रीवाल्मीकिना 'उन्द्रमन्निव' ' उन्मत्त इव' इत्यादौ स्वशब्दः प्रयुक्तः । किन बहुविषदुःखप्रलापस्य देहादावात्म- बुद्धिपूर्वकत्वात, तद्बुद्धेरज्ञानमूलकत्वात् स्वकृतलीला श्रवणद्वारा सर्वलोकानां मुक्तिप्रदानाय । नृपरूपेणावतीर्णस्य सच्चिदानन्दवनविग्रहस्य परमात्मनः श्रीरामस्य मायाधिष्ठातु: परमेश्वरस्य मृगुशापादिनाध्यज्ञानगन्धो ऽप्यस्तीति वक्तमशक्यत्वात् एतद्विषं विलापादिकं सर्व श्रीरामेण लोकशिक्षार्थमेव कृतं वेदितव्यम्-ती. परन्तु – एतादृशे संकटे समापतितेऽपि राम: धैयेगालम्ब्य वर्तेत चेव, तेन लोकशिक्षणं कृतं भवेत्। तत् परित्यज्य अत्यन्त पामरवत् विलापेन लोकः कथं शिक्षणीयः ? इति चिन्त्यम् । किञ्च राम: सर्वथा परमात्मैव, रावणस्तु तत्वं न ज्ञातवान् इति कथने रावणेन तथाऽज्ञानेऽपि, तस्मै वरं दप्तवता चतुर्मुखेन वा शातत्वावश्यं भावेन – मानुषादन्येनावध्यत्ववरस्य तेन दत्तस्य का गतिरित्यपि चिन्त्यम | 'अन्र्तं नोक्तपूर्व मे' इति वदता रामेण 'आत्मानं मानुषं अपि चैव सर्वेषां मन्ये' (युद्ध. 120-11) इत्युक्तिवी कथम् इत्यपि चिन्त्यम् । केवलनटनमात्रत्वे अवतारोऽपि नटनमात्रमेव खलु स्यादिति मूलोच्छेद एव न स्यात्यपि चिन्तनीयम् । अत: उपरितनेषु विषयेषु यथार्थमुत्तरमन्वेषणीयम् न तु केवलोहा- पोहाभिः विषयाननुगुणम् । उत्तरत्र 64-56 लोककतकव्याख्याऽपि द्रष्टव्या वक्तव्यं सर्व अन्यत्र विचारयाम: || अत्र । श्रीमान्-ज. 12 बभ्राम-ज. 2 3 कदम्बवनप्रिया-ड..