पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५९ सर्ग:] आयेणाक्रन्दितं श्रुखा भयान्मां सा व्यसर्जयत 405 ननु मदागममात्रतः कुतः पापशङ्का ? तत्राह - स्फुरत इति । स्फुरतीति यावत् ॥ ४ ॥ एवमुक्तस्तु सौमित्रिः लक्ष्मणः शुभलक्षणः ।

भूयो दुःखसमाविष्टः दुःखितं राममब्रवीत् ।। ५ ।। भूयो दुःखसमाविष्ट इति । पूर्व सीतावचनतो दुःखाक्रान्तः इदानीं रामेण च ' त्वयाऽकृत्यं कृतं' इत्युच्यमानत्वात् भूयो दुःख- समाविष्टत्वम् ॥ ५॥ न स्वयं 'कामकारेण तां त्यक्ताऽहमिहागतः । प्रचोदित स्तयैवोग्रैः त्वत्सकाशमिहागतः ॥ ६ ॥ कामकारेण स्वेच्छया । उप्रैः–दुःश्रवैः । बचोभिरिति शेषः ॥ ६ ॥ ' आर्येण हि परिक्रुष्टं लक्ष्मणेति सुविस्वरम् । परित्राहीति यद्वाक्यं मैथिल्याः तच्छ्रुतिं गतम् ॥ ७ ॥ आर्येणेत्यादि । 'आर्येण हि परिक्रुष्टं लक्ष्मणेति सुवि- स्वरम् । परित्राहीति यद्वाक्यं मैथिल्याः तच्छुतिं गतम्” इति पाकः पाठः । लक्ष्मणेति परित्राहीति च सुविस्वरं - सुशब्द विस्वरं च यद्धि वाक्यं आर्येण-आर्यस्वरसहशस्वरेण परिक्रुष्टं तत्तु मैथिल्याः श्रुतिं गतम् ॥ ७ ॥ .

  • स्वहृदयशुद्धिं अजानन्त्या सीतया परुषकथनात् पूर्व दुःखितः, इदानीं

तादृशकारणमपृष्ठेव रामेण गर्हणात् भूयः दुःखसमाविष्टः । स एवायं वेग: 'न स्वयं कामकारेण ' इत्याद्यनन्तर लोकेऽपि स्फुरति । 1 काम चारण-ङ. "स्तयैवाई-ङ. 3 आर्येणेव पराकुष्टं हा सीते कक्ष्मणेति च-ड.