पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

376 सीताप्रलोमन प्रयत पञ्चपञ्चाशः सर्गः [सीवाप्रलोभनप्रयतः] 'संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्कुव्यात् कृतकृत्यममन्यत ॥ १ ॥ अथ रावणस्य स्वैश्वर्य प्रदर्शनपूर्व स्त्रीभावप्रार्थनम् । संदिइये-

त्यादि ॥ १ ॥ [अरण्यकाण्डः 1 स चिन्तयानो वैदेहीं । कामबाणसमर्पितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ।। २ ।। स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः । अपश्यद्राक्षसीमध्ये सीतां शोकपरायणाम् || ३ || + अश्रुपूर्णमुखीं दीनां शोकभाराभिपीडिताम् । वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥ ४ ॥ मृगयूथपरिभ्रशं मृग श्श्रमिरिवावृताम् । अधोमुखमुखीं ' सीतां + अभ्येत्य च निशाचरः ।। ५ ।। 2 अघोमुखं मुखं यस्याः सा तथा ॥ ५ ॥ 3 तां तु ' शोकपरां दीनां अवशां राक्षसाधिपः । ^स बलात् दर्शयामास गृहं देवगृहोपमम् ।। ६ ।।

  • पूर्व स्वप्रभावकथनमुखेन प्रलोभनं कृत्वान् । अथ भोगोपकरणप्रदर्शनमुखेन

प्रलोभयति पचपाशे-गो. + अश्वित्यादि श्लोकत्रयमेकं वाक्यम - गो. वस्तुतस्तु स प्रविश्येत्यारभ्य लोकत्रयमेकं वाक्यम् । गृहं प्रविय, सीतामभ्येत्य उक्त विशेषणां सीतामपत्र- दिति योजना | अथवा - स प्रविशेत्यादिश्लोकस्यैव विस्तर:- अश्रुित्यादि श्लोकद्वयम् । अतः अपश्यदित्यस्यैवाकर्षः । + अभ्येत्य – तत्समीपं प्राप्य, अतिष्ठदिति शेष:- रा. 1 कामबाणै: प्रपीडितः - ज. 2 दीनां तांमभ्येत्य- ङ. 3 शोकवशाव-ज. ● विविधं, स्वमर्ल- ङ.