पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
6
[अरण्यकाण्ड:
मुनिगणशरणागतिः



 अत्रेति । य आश्रममण्डलं अभ्यगच्छादिति पूर्वमुक्तं, अत्रैवेत्यर्थः । अतिथि — न्यायतः पूजाईं, पर्णशालायाँ-प्रातिखिकाया- मिति शेषः ॥ १४ ॥

ततो [१].रामस्य सत्कृत्य विधिना पावकोपमाः ।
[२]आजद्दुस्ते महाभागाः सलिलं [३] धर्मचारिणः ।। १५ ।।

 रामस्य सत्कृत्येति । न लोकाव्यये 'ति निषेधेऽपि षष्ठयार्षी ||

पुष्पं मूलं फलं वन्यं आश्रमं च महात्मनः ।
 [४]निवेदयित्वा धर्मज्ञाः ततः प्राञ्जलयोऽब्रुवन् ॥ १६ ॥

 आश्रमं चेति-आवृतसलिलादिकमाश्रमं च । न्यवेदयन् इति प्राञ्जलय इति । अवगतनिजनित्योपास्यनिजकुलदैवत ब्रह्मावतार- अन्यथा न हि क्षत्रियमृषयो नमन्ति ॥ १६ ॥

धर्मपालो जनस्यास्य शरण्यस्त्वं महायशाः ।
पूजनीयश्च मान्यश्च राजा दण्डधरो गुरुः ॥ १७ ॥

 पूजनीयश्चेति । देवताबुद्धयेति शेषः । मान्यश्चेति । राज- बुद्ध्या सत्कारार्हश्च । तदुभयमेवोपपादयन्ति --राजेत्यादि । दण्डघर:- दुष्टनिग्रहकर्ता राजा चासि । एवमादिवादोपपत्तिः प्रागेवोक्ता दिव्य- ज्ञानोपपन्ना इति ।। १७ ॥



  1. रामं सु-ङ
  2. एतदनन्तरं- 'मङ्गलानि प्रयुञ्जाना मुद्दा परमया युता: इत्यधिकं - ङ.
  3. ब्रह्मचारिणः - ङ. ज.
  4. निवेदयित्वा – इमानि भवदीयानि, यथेष्टं विनियुङ्क्ष्वेति निवेद्य-गो.