पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
340
अरण्यकाण्ड:
सीतापहरणम्

सा तदा करुण: वाचः विलपन्ती सुदुःखिता ।
वनस्पतिगतं गृधं ददर्शायतलोचना ।। ३६ ।।
सा तमुद्वीक्ष्य सुश्रोणी रावणस्य [१] वशं गता ।
समाक्रन्दत् भयपरा [२] दुःखोपहतया गिरा || ३७ ||
जटायो ! पश्य मामार्य ! हियमाणामनाथवत् ।
अनेन राक्षसेन्द्रेण [३] करुणं पापकर्मणा ॥ ३८ ॥
नैष वारयितुं शक्यः [४] [५]तव क्रूरो निशाचरः ।
सच्चवान् [६] जितकाशी च सायुधश्चैव दुर्मतिः ॥ ३९ ॥

 वारयितुं न शक्यते इत्यत्र हेतुः – सत्त्ववानित्यादि । जित- काशी- जितभयः ॥ ३९ ॥

रामाय तु यथातचं, जटायो ! हरणं मम ।
लक्ष्मणाय च तत् सर्वं [७] आख्यातव्यमशेषतः ॥ ४० ॥

इत्याषें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे एकोनपञ्चाशः सर्गः

नाभि (४०) मानः सर्गः ॥ ४० ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे एकोनपश्चाशः सर्गः


  1. वंशानुगा-ड..
  2. दुःखोपहितया-ज.
  3. करुणं यथा तथा ह्रियमाणां-पो. अकरुणं यथा भवति तथा अनाथवत्
    ह्रियमाणां -रा.
  4. तव त्वया । भवता वारयितुम शक्यत्वात् रामाय वृत्तं कथयेत्यर्थः ।
  5. त्वया-ज.
  6. जितकाशी- जयावह: - गो.
  7. आख्यातव्यं विशेषत:-हु..