पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९ सर्ग: ]
333
स तु क्रुद्धः कत्यमानः भिक्षुरूपं जहाँ हठात्

 अप्रतिरूपं - अनुपमं रूपं यस्याः सा तथा । पीतं अमृतं येन स तथा| वीर (२४) मानः सर्गः ॥ २४ ॥

इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे अष्टचत्वारिंशः सर्गः


एकोनपञ्चाशः सर्गः

[सीतापहरणम् ]

सीतायाः वचनं श्रुत्वा दशग्रीवः प्रतापवान् ।
हस्ते हस्ते [१] समाहन्य चकार सुमहद्वपुः ॥ १ ॥

 क्रुद्वेन गृहीतनिजरूपेण रावणेन यस्मै आगतं तत् कर्म कृतम् । सीतायाः इत्यादि । हस्ते हस्तं समाहन्येति । समाइत्येति यावत् । मान्तानुदात्तोपदेशानमेव 'वा स्यपि' इति अनुनालिकलोपे विकल्पः । अमान्तस्य तु नित्य एव सः । [२] भुजेन भुजास्फालनं शूराणां संनाइविशेषः ।। १ ।।

 [३]स मैथिलीं पुनर्वाक्यं भापे [४] च ततो भृशम् ।
॥ नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥

 न श्रुतौ मन्य इति । प्रागुक्ताविति शेषः १॥ २ ॥

उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः ।
आपिधेयं समुद्रं च हन्यां मृत्युं रणे स्थितः ॥ ३ ॥


  1. समा
  2. इस्ततलयोरेव घट्टनं वा विवक्षितम् । भुजारफालनं तु समयोर्धषणायामेव प्रसिद्धम्
  3. चकार सुमहद्वपुः इत्यस्यैव प्रपश्चो का दसमश्लोकपर्यन्तम् ।
  4. वाक्यकोविदः-अ.