पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ अरण्यकाण्ड: व्यक्तं-स्पष्टं सः स्वरः तस्य-रामस्य न कश्चिदपि दैवतः " इति पाङ्कः । स्वरो न भवति इति । - दैवतः- अशरीरदेवतासंबन्धीव कश्चित् स्वरः इत्यपि न; अपि तु गन्धर्वनगरप्रख्या-तद्वत् मिथ्या, रक्षसो मायैव-वञ्चनार्थप्रवर्तित एवायं स्वर इत्यर्थः ॥ १६ ॥ 306 लक्ष्मणापसरणम् नस तस्येत्यादि । न्यासभूताऽसि, वैदेहि ! न्यस्ता मयि महात्मना । रामेण त्वं, वरारोहे ! न त्वां त्यक्तमिहोत्सहे ॥ १७ ॥ न्यासरूपतया मयि निक्षिप्तां त्वां त्यक्तुं अहं नोत्सहे ॥ १७ ॥ 'कृतवैराश्च, वैदेहि ! वयमेतैर्निशाचरैः । खरस्य निधनादेव जनस्थानवधं प्रति ॥ १८ ॥ इतश्च मया व्यक्तुं न शक्यते इत्याह –कृतवैरा इत्यादि । जनस्थानवधं प्रति-जनस्थानवर्तिस्वपरिकररक्षो वधमुपलक्ष्य प्रवृत्तस्य खरस्य निधनादेव हेतोः वयं एतैः निशाचरैश्च यस्मात् कृतवैराः अतः त्वां त्यक्तुं नोत्सहे इति संबन्धः ॥ १८ ॥ 1 राक्षसाः विविधा वाचो विसृजन्ति महावने । हिंसाविहाराः, वैदेहि ! न चिन्तयितुमर्हसि ।। १९ ।। विविधा वाचो विसृजन्तीति । अस्मद्व्यामोहनार्थमिति शेषः । हिंसैव - साधुजनपीडैव विहारो येषां ते तथा ॥ १९ ॥

  • खरस्य स्वामिनः निधनात् जनस्थाने वधो यः तं प्रति वयं एतैः निशाचरै:

कृतवैरा:- गो. एवं कृतवैरा: राक्षसाः विविधा वाचो विसृजन्ति अस्मयामोहनाये- व्युत्तरत्रान्वयः ॥ व्याहरन्ति-ज.