पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४ सगै: ]
301
त्रित्रमाणश्च सोडकोशत् हा सीते लक्ष्मणेति च

[१]म्रियमाणस्तु मारीचः जहाँ तां कृत्रिमां तनुम् ॥ १७ ॥
स्मृत्वा [२] तद्वचनं रक्षः दध्यौ केन तु लक्ष्मणम् |
इह प्रस्थापयेत् सीता [३] शून्ये तां रावणो हरेत् ।। १८ ॥

 तद्वचनमिति। रावणवचनमित्यर्थः । दध्यौ-ध्यानं कृतवान् । केन-केनोपायेन मया कृतेन सीता लक्ष्मणं इह प्रस्थापयेत्, तां च कथं शून्ये रावणो हरेत् . इति दध्यौ इत्यन्वयः ॥ १८ ॥

स प्राप्तकालमाज्ञाय चकार च ततः स्वरम् ।
सदृशं राघवस्यैव, हा सीते ! लक्ष्मणति च ।। १९ ।।
तेन मर्मणि निर्विद्धः शरेणानुपमेन हि ।
मृगरूपं तु तत् त्यक्ता राक्षसं रूप [४]मात्मनः ॥ २० ॥
चक्रे स सुमहा [५]कायो मारीचो जीवितं त्यजन् ।

 मर्मणि — सहजरूप्राणस्थाने इत्यर्थः । तत्र हेतु: - रेणानुपमेन होति । रक्षस्संबन्धि-राक्षसम् ॥ २० ॥

[ततो विचित्रकेयूरः सर्वाभरणभूषितः ।
हेममाली महादंष्ट्रः राक्षसोऽभूच्छराहतः ।।]
तं दृष्ट्वा पतितं भूमौ राक्षसं घोरदर्शनम् ॥ २१ ॥


  1. एतद६द्वयस्थाने–' म्रियमाणस्तु मारीच: दध्यौ केन तु लक्ष्मणं'-झ.
  2. सुतां मतिं- ङ.
  3. यद्यपि रावणेनैव पूर्वमन्त्रोपाय: उपदिष्ट:- 'आक्रान्ते तु काकुत्स्थे दूरं यात्वा व्युदाहर । हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् (४० - २०) इति । परन्तु तस्यैव प्रकार चिन्तन मिदम् । अथवा --- केन तु लक्ष्मणं सीता इह प्रस्थापयेत्, तां च शून्ये रावणो हरेत् इति दध्यौ । ततः -- रावणवचनं तद्वचनं स्मृत्वा सः तत् प्राप्तकाल-माशाय राघवस्य सदृशं स्वनं चकार इत्यन्वयः । पाठान्तरे तु न कश्चन केश: ।
  4. मास्थित:-ज.
  5. कायं- ङ.