शशिसन्निभः इत्यनेन आह्लादकत्वम् ॥ १३ ॥
अहो ! रूपं अहो ! लक्ष्मीः स्वरसंपच्च शोभना ।
मृगोऽद्भुतो विचित्राङ्गः हृदयं हरतीव मे ।। १४ ।।
स्वरसंपत्-ध्वनिसमृद्धिः ॥ १४ ॥
यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव |
आर्यभूतं भवति विस्मयं जनयिष्यति ।। १५ ।।
तव ग्रहणं- त्वत्कर्तृकग्रहणमित्यर्थः ।। १५ ।।
समाप्तवनवासानां राज्यस्थानां च नः पुनः ।
अन्तःपुरविभूषार्थ: मृग एव भविष्यति ।। १६ ।।
भरतस्यार्यपुत्रस्य श्वश्रूणां भम च, प्रभो !
मृगरूपमिदं [३]व्यक्तं विस्मयं जनयिष्यति ॥ १७ ॥
जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः ।
अजिनं, नरशार्दूल ! रुचिरं मे भविष्यति ।। १८ ।।
जीवन् ग्रहणं नाभ्येतीति हतोऽपि वा यदि ग्रहणं प्राप्नोति, तदाऽप मे प्रयोजनमस्तीत्याह -- अजिनमित्यादि । १८ ।
निहतस्यास्य सच्चस्य जाम्बूनदमयत्वचि ।
[४] शष्यबृस्यां विनीतायां इच्छाम्यहमुपासितुम् ।। १९ ।।