पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५ सर्गः]
245
पश्यन् ययौ शुभान् लोकान् वतानि च नदीर्गिरीन्


[१]अगरूणां च मुख्यानां वनान्युपवनानि च ।
तकोलानां च जात्यानां [२]फलिनां च सुगन्धिनाम् ॥
पुष्पाणि च तमालस्य गुल्मानि मरिचस्य च ।
मुक्तानां च समूहानि शुष्यमाणानि तीरतः ॥ २३

 निर्यासरूपो रसः – निर्यासरसः तस्य मूलानि - उपादानभूतानि गुग्गुलादिवृक्षाः, तेषां चन्दनानां च वनानि सहस्रशः पश्यन् । जात्यानां उत्तमतक्कोलवृक्षभवानां फलिनां प्रशस्तफलवतां ॥ २३ ॥

 [३][४] शङ्खानां प्रस्तर चैव प्रवालनिचयं तथा ।
काञ्चनानि च [५]शैलानि राजतानि च सर्वशः ॥ २४ ॥

 शैलानीति समूहार्थे । शिलावृन्दानीत्यर्थः ॥ २४ ॥

प्रस्रवाणि मनोज्ञानि प्रसन्नानि [६].हृदानि च ।
धनधान्योपपन्नानि स्त्रीरलैः शोभितानि च ॥ २५ ॥

हस्त्यश्वरथगाढानि नगराण्यवलोकयन् ।

 प्रस्रवाणि - निर्झराः ॥ २५ ॥

तं समं सर्वतः स्निग्धं मृदुसंस्पर्शमारुतम् ॥ २६ ॥
+ [७] [८]अनूपं सिन्धुराजस्य ददर्श त्रिदिवोपामम् ।

 समं - समभूतलम् ॥ २६ ॥

तत्रापश्यत् स मेघाभं न्यग्रोधमृषिभिर्वृतम् ॥ २७ ॥

  1. अंकोलानां च ङ. ज.
  2. फिलानां-ज.पलाशानां - ङ.
  3. शैलानीति नपुंसकत्वमार्षम् ।
  4. शैलानि प्रवरांश्चैव-ज.
  5. शृङ्गाणि-ज.
  6. अद्भुतानि च - ज
  7. अनूपे-ज.
  8. एवं बहुधा सागरान्पवर्णनं पुनः बहुदूरमार्गगमनप्रयासेन मारीचोपदेशानिवर्त्याध्यवासायविशेषं व्यञ्जयितुम्-गो.