पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३५ सर्ग:]
241
तयैवं चोदितः क्रुद्धः प्रस्थितो रावणो गृहात्



पञ्चत्रिंशः सर्गः

[ मारीचाश्रमपुनर्गमनम् ]

ततः शूर्पणखावाक्यं तच्छ्रुत्वा [१][२] रोमहर्षणम् ।
सचिवानभ्यनुज्ञाय [३] कार्य बुद्धा जगाम सः ॥ १॥

 अथ रावणः अकम्पनादिव शूर्पनख्याश्च सकाशात् सीताहरणं कृत्यं श्रुत्वा तदेव कर्तव्यं, युद्धं चानुचितमिति निश्चित्य तत्साहाय्याय परममायामारीचं रह: पुनरुपगच्छति । ततः शूर्पणखावाक्यमित्यादि । रोमहर्षणमिति भयोत्पादकतया कामविरहोत्पादकतया च रोमाञ्चकरत्वं शूर्पणखावाक्यस्य । कार्यं बुद्धा जगाम सः । मारीचाश्रममिति शेषः । अस्यैव प्रपञ्चः आसर्गसमाप्ति ॥ १ ॥

तत्कार्यमनुगम्याथ यथावदुपलभ्य च ।
 [४] दोषाणां च गुणानां च संप्रधार्य बलाबलम् || २ ||
इतिकर्तव्यमित्येव कृत्वा निश्चयमात्मनः ।
स्थिरबुद्धिस्ततो रम्यां यानशालां जगाम ह ॥ ३ ॥

तत्कार्यमित्यादि । सीताऽपहारमित्यर्थः । अनुगम्य-उद्दिश्य । दोषाणां च गुणानां च स्वरूपं यथावदुपलभ्य बलाबलं च यथावत् संप्रधार्य इत्येव कर्तव्यमिति आत्मनः-स्वस्य निश्चयं कृत्वा यानशालां जगाम ।। २-३ ॥



  1. रोमहर्षणं --- भयोत्पादकत्वेन रोमाञ्चकरम्- गो. अस्य कविवाक्यरूपत्वात् एवं व्याख्यानम् । तथा च - परभार्यापहारस्य-विशिष्य सीतापहारस्य अतिक्रूरत्वात्-श्रवणमाश्रमेव रोमाञ्चकारीति भावः ।
  2. राक्षसाधिप:- ङ.
  3. कार्यबुध्या - ङ.
  4. स्वेन चिकीर्षितं सीतापहरणलक्षणं कार्य कि पीरुपेण सुकरम् ? आहोस्विचर्येण कर्तव्यमिति विचार्य-गो.