पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
237
इदानीमपि बोत्थाय हत्वा सीतां जहि द्विषम्



कश्च रामः १ कथंवीर्यः १ किरूप: ? किपराक्रमः १ ।
किमर्थं दण्डकारण्यं प्रविष्टः स दुरासदम् १ ॥ २ ॥
आयुधं किं च रामस्य निहता: येन राक्षसाः
खरच निहतः संख्ये दूषण: त्रिशिरास्तथा ? |॥ ३ ॥
[१]तन्वं ब्रूहि, मनोज्ञाङ्गि ! केन त्वं च विरूपिता |
इत्युक्ता राक्षसेन्द्रेण राक्षसी क्रोधमूच्छिता ॥ ४ ॥
ततो रामं [२] यथातचं आख्यातुमुपचक्रमे ।
[३] दीर्घबाहुः विशालाक्षः
[४] चीरकृष्णाजिनाम्बरः ॥ ५ ॥
कन्दर्पसमरूपश्च रामो दशरथात्मजः ।

 किंरूपः इत्यस्योत्तरं-- दीर्घबाहुरित्यादि । कश्च रामः इत्यस्योत्तरं-- दशरथात्मजः इति । अन्ये स्पष्टाः ॥ ५ ॥

शक्रचापनिभं चापं विकृष्य [५] कनकाङ्गदम् ॥ ६॥
दीप्तान् क्षिपति नाराचान् सर्पानिव महाविषान् ।

 कनकाङ्गदं--कनकवलयभूषितम् ॥ ६ ॥

नाददानं शरान् घोरान् [६] न मुञ्चन्तं शिलीमुखान् ॥ ७ ॥
न कार्मुकं विकर्षन्तं रामं पश्यामि संयुगे ।
[७]हन्यमानं तु तत् सैन्यं पश्यामि शरवृष्टिभिः ॥ ८ ॥



  1. इदमर्थ नास्ति- ङ.
  2. यथान्याय-ज.
  3. रामानुजपरव शहृदयाऽपि तदग्रजकृतमहोन्माद हेतुभूतं रामलावण्यं संग्रहेणाभि-
    परो- दीर्घबाहुरिस्यादिना - गो.
  4. श्रीमान् शत्रुनिबर्हण:-ङ.
  5. कनकाङ्कितम्
  6. विमुषन्तं - ज.
  7. दामानं-ङ.