पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
234
[अरण्यकाण्ड:
रावणोपालम्भ:



त्वं तु लुब्धः प्रमत्तश्च पराधीनश्च, [१]रावण !
विषये स्वे समुत्पन्नं भयं यो नावबुध्यसे ॥ १४ ॥

 विषये स्वे-स्वीयदेशे ॥ १४ ॥

तीक्ष्णमल्पप्रदातारं प्रमत्तं गर्वितं शठम् ।
व्यसने सर्वभूतानि नाभिधावन्ति पार्थिवम् ॥ १५ ॥

 तीक्ष्णादिधर्मकः स्वामात्यभृत्यादिविषये यः तं पार्थिवं, तस्य व्यसनकाले सर्वभूतानि भृत्यामात्यादि सर्वप्रजा नामिधावन्ति -तद्रक्ष- णाय न प्रवर्तन्ते ॥ १५ ॥

[२] अतिमानिनं [३] अग्राह्यं आत्मसंभावितं नरम् ।
[४] क्रोधनं व्यसने हन्ति स्वजनोऽपि [५] महीपतिम् ।। १६ ।।

 अग्रायं-स्वकैः अनुपसर्थ्यम् ।। १६ ।।

नानुतिष्ठति कार्याणि भयेषु न बिभेति च ।
क्षिप्रं राज्याच्चयुतो दीनः तृणैः तुल्यो [६]भविष्यति । १७ ॥

 नानुतिष्ठन्तीति । अमात्यादिस्वजनोऽपीत्यनुकर्षः ॥ १७ ॥

[७] [८]शुष्कैः काष्ठैः भवेत् कार्यं लोष्टैरपि च पांसुभिः ।
न तु स्थानात् परिभ्रष्टैः कार्य स्याद्वसुधाधिपैः ॥ १८ ॥



  1. राक्षस-ज.
  2. अमिमानिनं-ङ.
  3. अग्राह्य – सद्भिरिति शेष:-गो.
  4. क्रोधिन-ङ,
  5. 'नराधिपम्-ज.
  6. भवेदिह-ज.
  7. स्थानात भ्रष्टमेव खलु शुष्ककाष्ठादिव्यपदेश्यं भवति। तैरपि कदाचित् किञ्चित् कार्य निर्वर्तेत । स्थानभ्रष्टेन पार्थिवेन तु न किचिदपि |
  8. शुष्क-ङ.