पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
• ३१ सर्ग:]
217
कुडोऽभूद्रावणस्तीनं ज्ञातवृत्तो कम्पनात्



 दुर्मतेः रावणस्य पुनः स्वपुर्यागमनम् । त्वरमाण इत्यादि । शूर्पणखाऽऽगमनात् पूर्वमेवेति शेषः । सर्वमपि जनस्थानदेशवाच्यं सामान्यतः अतो गोदावरीतीरात् गतो दण्डकारण्यं गतोऽपि जनस्थानात् गतः इत्युक्तम् ।। १ ।।

जनस्थानस्थिताः, राजन् ! राक्षसाः ह वो हताः ।
खरश्च निहतः संख्ये [१] कथंचिदहमागतः ॥ २ ॥

 कथंचिदहमागतः इति । मया कार्यवशात् सङ्गतेन केवलं प्रेक्षकतयाऽवस्थितत्वात् रामशराविषयकृितः इत्यर्थः ॥ २ ॥

एवमुक्तो दशग्रीवः क्रुद्धः संरक्तलोचनः ।
अकम्पनमुवाचेदं निर्दहन्निव [२]चक्षुषा ॥ ३ ॥
[३] केन [४] भीमजनस्थानं हतं मम परासुना।
[५] को हि सर्वेषु लोकेषु [६]गतिं [७]चाधिगमिष्यति ।। ४ ।।

 भीमजनस्थानमिति पाङ्कः । भीमं - भयङ्करं जनस्थानं तथा । परासुनेति कोपात् । गर्ति-स्थितिम् ॥ ४ ॥

न हि मे विप्रियं कृत्वा शक्यं मघवता [८] सुखम् ।
प्राप्तुं वैश्रवणेनापि न यमेन न विष्णुना ॥ ५ ॥
कालस्य चाप्यहं कालः दहेयमपि पावकम् ।
मृत्युं मरणधर्मेण संयोजयितुमुत्सद्दे ॥ ६ ॥



  1. कथचिदिति। स्त्रीवेषधारणेनेति भावः । अत एव शूर्पणखा वक्ष्यति - "एका कञ्चिन्मुक्ताऽहं परिभूय महात्मना। स्त्रीवधं शङ्कमानेन रामेण विदितात्मना ॥” इति - गो
  2. तेजसा-ज.
  3. 'तेन-ज.
  4. रम्थं-ङ. भीमं - ज.
  5. कोऽद्य-ङ
  6. गति-गम्यत इति गति :- स्थानम् - गो.
  7. नाधिगमिष्यति-ज.
  8. सुखं प्राप्तुं न शक्यमित्यन्वयः ।