पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
210
[अरण्यकाण्ड:
खरसंहार:



एवमुक्ता ततो रामं संबध्य भ्रुकुटीं ततः ॥ १६ ॥
स ददर्श महासालं अविदूरे निशाचरः ।
रणे प्रहरणस्यार्थे सर्वतो ह्यवलोकयन् ॥ १७ ॥

 भ्रुकुटीं संबध्येति । मुखे संनिबध्येत्यर्थः । प्रहरणस्य - आयुधस्य ।। १६-१७ ।।

स तमुत्पाटयामास [१] सदश्य दशनच्छदम् ।
तं समुत्क्षिप्य बाहुभ्यां विनद्य च [२]महाबलः ॥ १८ ॥

 दशनच्छदं - अघरम् ॥ १८॥

राममुद्दिश्य चिक्षेप हतस्त्वमिति चात्रवीत् ।
तमापतन्तं बाणौघैः छित्वा रामः प्रतापवान् ॥ १९ ॥
रोषमाहारयत् तीव्रं निहन्तुं समरे खरम् ।
जातस्वेदः ततो रामः [३] रोषात् रक्तान्तलोचनः ॥ २० ॥
निर्बिभेद सहस्रेण बाणानां समरे खरम् ।

 रोषात् जातस्वेदः, न तु श्रमात् इत्यर्थः । रक्तं - रक्तवर्ण अन्तं लोचनं अपाङ्गं यस्य सः तथा । सहस्रेणेति । अनेकेनेति यावत् ॥ २०॥

तस्य बाणान्तराद्रक्तं बहु सुस्राव फेनिलम् ॥ २१ ॥
गिरेः [४][५] प्रस्रवणस्येव तोयधारापरिस्रवः ।

 बाणान्तरात् – विदीर्य निस्सृतबाणमार्गात् इत्यर्थः ॥ २१ ॥



  1. अनेन सालस्य दुर्ग्रहत्वमुक्तं- गो.
  2. महाबलम्-ङ.
  3. जातस्त्रेदः, रक्तान्तलोचन:- इत्युभयत्रापि रोषात्' इत्येतदन्वेति ।
  4. प्रस्रवतो यद्वत्- ङ.
  5. प्रस्रवणस्य प्रस्त्रवणाख्यस्य- गो. ति. रा.