पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
208
[अरण्यकाण्ड:
खरसंहारः



[१] नीचस्य क्षुद्रशीलस्य मिथ्यावृत्तस्य- रक्षसः |
प्राणानपहरिष्यामि गरुत्मान् अमृतं यथा ॥ ५ ॥
अद्य ते छिन्नकण्ठस्य फेनबुहुद [२] भूषितम् ।
विदारितस्य मद्धाणैः मही पास्यति शोणितम् ।। ६ ।।
पांसुरूषितसर्वाङ्गः स्रस्तन्यस्तभुजद्वयः ।
स्वप्स्यसे गां [३] समालिङ्ग्य दुर्लभां प्रमदामिव ॥ ७ ॥

 गां भुवम् ।। ७ ।।

[४][५]प्रबद्धनिद्रे शयिते त्वयि राक्षसपांसने ।
भविष्यन्त्यशरण्यानां शरण्या दण्डका इमे ॥ ८ ॥

 प्रबद्धनिद्र इति । प्रबद्धदीर्घनिद्र इत्यर्थः । शरण्या: -सुखावासभूताः ॥ ८ ॥

जनस्थाने हतस्थाने तव, राक्षस ! मच्छरैः ।
निर्भया: विचरिष्यन्ति सर्वतो मुनयो वने ॥ ९ ॥

 हतस्थाने-हतावासे इत्यर्थः ॥ ९ ॥

अद्य विप्रसरिष्यन्ति राक्षस्यो हतबान्धवाः |
बाप्पा [६] वदनाः दीनाः भयादन्यभयावहाः ॥ १० ॥

 भयात् विप्रसरिष्यन्तीत्यन्वयः ॥ १० ॥



  1. नीचस्य, तवेति शेषः ।
  2. दूषितम्,रूषितम्- कु.
  3. समालिङ्गयेत्यनेन अवाग्भूतत्वमुच्यते-गो. दुर्लभा प्रमदामिवेत्यनेन, आलिङ्गने गाढत्वं, तेन त्यक्तमनिच्छा, तेन च मरणं लक्ष्यते ।
  4. 'प्र' इस्युपसर्गेण दीर्घनिद्रां प्राप्ते-इत्यर्थलाभः ।
  5. प्रवृद्द्-ज.
  6. नयना:-कु.