ततः पश्चान्महातेजाः नाराचान् भास्करोपमान् ।
[१]जिघांसू राक्षसं क्रुद्धः त्रयोदश[२] समाददे ॥ २८ ॥
[३] ततोऽस्य [४] युगमेकेन चतुर्भि: [५]चतुरो हयान् ।
षष्ठेन तु [६] शिरः संख्ये [७]खरस्य रथसारथेः || २९ ।।
त्रिभिः त्रिवेणुं बलवान् द्वाभ्यां अक्षं महाबलः ।
द्वादशेन तु बाणेन खरस्य [८] सशरं धनुः ॥ ३० ॥
छित्वा वज्रनिकाशेन राघवः प्रहसन्निव ।
त्रयोदशेनेन्द्रसमः बिभेद समरे खरम् ॥ ३१ ॥
उपात्तत्रयोदशानां विनियोगः – ततोऽस्य युगमित्यादि । त्रिवेणुर्नाम रथमुखस्थ: युगाधारदण्डः । अक्षः चक्राबारदण्डः । प्रहसन्निव-लीलयैवेत्यर्थः : । बिभेद खरमिति | हृदयदेशमिति शेषः ॥
प्रभनधन्वा विरथः हताश्वो हतसारथिः ।
गदापाणिरवहुत्य तस्थौ भूमौ खरस्तदा ।। ३२ ।।
तत् कर्म रामस्य महारथस्य
समेत्य देवाश्च महर्षयश्च ।
[९]अपूजयन् प्राञ्जलयः प्रहृष्टाः
तदा विमानाग्रगताः समेताः ।। ३३ ।।
इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे अष्टाविंशः सर्गः
महारथस्येति । महारथपरिगणनीयस्येत्यर्थः ॥ ३३ ॥
इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे अष्टाविंशः सर्ग: