पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२८ सर्ग: ]
195
खरस्याप्यभवत् त्रास: बधं दृष्ट्वा तु रक्षसाम्



तहलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः |
आससाद खरो रामं [१] नमुचिर्वासवं यथा || ३ ||

 हतं च तत् भूयिष्ठं च हतभूयिष्ठम् || ३ ||

विकृष्य बलवच्चापं नाराचान् रक्तभोजनान्
खरः चिक्षेप रामाय क्रुद्धानाशीविपानिव ॥ ४ ॥
ज्यां विघ्न्वन् सुबहुशः [२] शिक्षयाऽत्राणि दर्शयन् ।
[३]चकार समरे मार्गान् शरैः रथगतः खरः ॥ ५ ॥

 समरे मार्गांश्चकार-प्रकारभेदान् दर्शया मासेत्यर्थः ॥ ५ ॥

स सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः ।
पूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥ ६ ॥
[४]स सायकैः दुर्विषहै: सस्फुलिङ्गैरिवाग्निभिः ।
[५] नभवकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ७ ॥

 नभः - आकाशं अधिवरं - अरन्धं चकार ॥ ७ ॥

तद्धभूव शितैर्बाणैः खररामविसर्जितैः ।
[६] पर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् || ८ ||



  1. कश्यपस्य परम्या: दनो: पुत्रः ।
  2. शिक्षया— धनुर्वेद शिक्षापाटवेन ज्यां विधुन्वन् अस्त्राणि दर्शयन्–अस्त्र प्रयोगपाटनं दर्शयन् समरे शरैः मार्गान्-नानाप्रकारांश्चकार-गो. शिक्षया— धनुर्विद्याभ्यासेन मार्गान्–शरसन्धानक्षेपणादि-प्रकारभेदान् दर्शयन् रथस्थ: खरः समरे चचार – अनेकविधरथसंचरणैः-ति.
  3. चचार-च.
  4. स राम इत्यन्वयः ।
  5. रामश्चकाराविरतं- ङ.
  6. परि-परितः अनाकाशं निरवकाशम् तत्र हेतुः- सर्वतः शरसङ्क्रमिति वाऽतर्थः ||