पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
192
[अरण्यकाण्डः
त्रिशिरोवध:



त्रिशिराश्च रथेनैव वाजियुक्तेन भास्वता
अभ्यद्रवद्रणे रामं त्रिशृङ्ग इव पर्वतः ॥ ७ ॥
शरधारासमूहान् सः महामेघ इवोत्सृजन्
व्यसृजत् [१] सदृशं नादं [२] जलार्द्रस्येव दुन्दुभेः ॥ ८ ॥

 जलार्द्रस्येति । मद्दलस्य मार्जनवत् दुन्दुभेः ध्वन्याधिक्य- प्रयोजनकं औषधविशेषसंस्कृतं यत् जलं तेन आर्द्रस्य-सिक्तस्येत्यर्थः ॥

आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः |
[३] धनुषा प्रतिजग्राह विधन्वन् सायकान् शितान् ॥ ९ ॥
स संप्रहारस्तुमुलः रामत्रिशिरसोर्महान् ।
बभूवातीव बलिनोः सिंहकुञ्जरयोरिव ।। १० ।।।
ततः त्रिशिरसा बाणैः ललाटे ताडितः त्रिभिः ।
अमर्षी कुपितो रामः[४] [५]संरब्धमिदमब्रवीत् ॥ ११ ॥
अहो ! विक्रमशूरस्य राक्षसस्येदृशं बलम् ।
पुष्पैरिव शरैर्यस्य ललाटेऽस्मि परिक्षतः ॥ १२ ॥
ममापि प्रतिगृह्णीष्व शरांचापगुणच्युतान् ।

 अहो विक्रमशूरस्येत्यादि व्यक्योक्तिः । विक्रमः -पराभिमवः, तत्र शूरः -समर्थः तथा । पुष्पैरिव परिक्षतः इत्यनेन न त्वगपि विद्वेत्यर्थः ॥ १२ ॥



  1. भैरवं - इ.
  2. अनेन नादवेपरीत्येन मृत्युसान्निध्य सूचितम् - ति. जलाद्वंस्थेस्यनेनास्य
    दीन स्वरत्वमुक्तम्-गो.
  3. सायकान् विघ्न्वन् राक्षसं प्रतिजग्राह ।
  4. संरब्धः-राक्षसकोपोत्पादकः,अन्तर्भावितणिजर्थः,कर्तेरि निष्ठा तु र्माविवक्षयाडकर्मकत्वात् रा संरग्धं-सकोपमित्यर्थ:-गो.
  5. संरभ इद-च. ज.