पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६ सर्ग:]
189
रक्षसां चाहनत् रामः सहस्राणि चतुर्दश



तैर्भिन्नवर्माभरणाः छिन्नभिन्नशरासनाः ।
निपेतुः शोणितादिग्धाः धरण्यां रजनीचराः ॥ ३२ ॥

 शोणितेनादिग्धाः-आलिप्ताः तथा ॥ ३२ ॥

तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः ।
आस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥ ३३ ॥

 महावेदि:- महायागवेदिः ॥ ३३ ॥

क्षणेन तु महाघोरं वनं निहतराक्षसम् ।
बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥ ३४ ॥
चतुर्दशसहस्राणि रक्षसां [१]भीमकर्मणाम् ।
इतान्येकेन रामेण [२] मानुषेण पदातिना || ३५ ।।
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः ।
राक्षसः त्रिशिराश्चैव रामश्च रिपुसूदनः ।। ३६ ।।
शेषा हता [३] महासत्वाः राक्षसाः [४] रणमूर्धनि ।
घोरा दुर्विषहाः स सर्वे लक्ष्मणस्याग्रजेन ते ॥ ३७॥



  1. क्रूरकर्मणाम्-ङ..
  2. मानुषेण मानुषवेषेणापि-ति.
  3. महासत्वाः इत्यादिविशेषणै:-:- महारथा एव इताः, क्षुद्राः केचन
    भीयोन इता इति गम्यते । अत एवोत्तरसर्गे इतशेषा इति वक्ष्यति गो.
  4. रणनिर्भयाः, रणदुर्जया:- ङ.