पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५ सर्ग: ]
183
राक्षसैस्तु हतैः कीर्ण तदाऽभूत् समराङ्गणम्



युगपत् पतमानैश्च युगपञ्च हतैर्भृशम् ।
युगप[१].त्पतितैश्चैव [२].विकीर्णा वसुधाऽभवत् ।। ४१ ।।

 पतमानैः- गच्छद्भिरिति यावत् । पतितैरिति । लक्ष्येष्विति शेषः । विकीर्णा विशेषेणाच्छादिता ॥ ४१ ॥

[३]निहताः पतिताः क्षीणा: छिन्ना [४] भिन्ना विदारिताः ।
तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥ ४२ ॥

 निहताः – सद्योहताः । पतिताः-पातानन्तरं मृताः । क्षीणा:-कण्ठगतप्राणाः । छिन्नभिन्नौ प्रागुक्तार्थी ॥ ४२ ॥

सोष्णीषैरुत्तमाझ्श्व साङ्गदै: बाहुभिस्तथा ।
ऊरुभिः [५] जानुभिः छिन्नैः नानारूपविभूषणैः ॥ ४३ ॥
हयैश्च द्विपमुख्यैश्च स्थैर्भिन्नैरनेकशः ।
चामरैः व्यजनैः छत्रैः ध्वजैः नानाविधैरपि ।। ४४ ।।
रामस्य बाणाभिहतैः [६] विचित्रैः शूलपादृशैः' [७]
विच्छिन्नैः समरे भूमिः विकीर्णाऽभूत् भयङ्करा || ४५ ।।

 विभूषणैरिति । उपलक्षिताः राक्षसाः इत्यन्वयः | विच्छिन्नैः- विशेषेण छिन्नैः ॥ ४५ ॥



  1. स्प्रहितै-ड
  2. विस्तीर्णा-ड.
  3. निहता:- केवलं प्रहताः । पतिता:- अशनिपात इव भयेन भूमौ पतिताः । क्षीणा: – कण्ठगतप्राणाः । छिन्ना:-द्विधाकृता: । मिन्ना:-- खण्डितावयवाः ।
    विदारिताः -- नृसिंहेन हिरण्यवत् आनामिकण्ठं उद्भिन्नशरीराः - गो.
  4. भन्ना निवारिताः - ङ.
  5. बाहुभिः-च.
  6. विच्छिन्नैः ।
  7. एतदनन्तरं - "खड्गैः खण्डीकृतैः प्रास: विकीर्णैश्च परश्वथैः । चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः ।। "-.इत्यधिकं - ङ. ज