पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
176
[ अरण्यकाण्ड:
खरसैन्यविध्वंसनम्


तं दृष्ट्वा [१]सशरं चापं उद्यम्य खर [२] निःखनम् ।
रामस्याभिमुखं सूतं [३] [४]चोद्यतामित्यचोदयत् ॥ २ ॥
स खरस्याज्ञ्या सूतः तुरगान् समचोदयत् ।
यत्र रामो महाबाहुः एको धन्वन् स्थितो धनुः ॥ ३ ॥
तं तु निष्पतितं दृष्ट्वा सर्वे ते रजनीचराः ।
[५] नर्दमाना महानादं [६]'सचिवाः पर्यवारयन् ।। ४ ।।

 सचिवाः पर्यवारयन्निति । श्येनगाम्यादयः प्रागुक्ताः सचिवाः ॥

स तेषां यातुधानानां मध्ये रथगतः खरः ।
बभूव मध्ये ताराणां लोहिताङ्ग [७]इवोदितः ॥ ५ ॥

 लोहिताङ्ग:-भौमः ॥ ५ ॥

ततः शरसहस्रेण राममप्रतिमौजसम् ।
अर्दयित्वा महानादं ननाद समरे खरः || ६ ||
ततस्तं [८] भीमधन्वानं क्रुद्धाः सर्वे निशाचराः ।
रामं नानाविधैः शस्त्रैः अभ्यवर्षन्त दुर्जयम् ॥ ७ ॥
मुद्गरैः [९]पट्टिसैः शूलैः प्रासैः खड्गैः परश्वधैः ।
राक्षसाः समरे रामं निजघू [१०]रोषतत्पराः ॥ ८ ॥



  1. सगुणं-त्र.
  2. खरनिस्वनमिति चापविशेषणम् ।
  3. चोयतामिति । रथः इति शेषः । तुरगान् समचोदयत्' इत्युक्तया तुरगानिति वा शेषः ।
  4. 'चोदयामास राक्षसम् च.
  5. मुजमाना-ज
  6. सचापा:-ङ
  7. 'इवतःच. ज.
  8. भीमधन्वानं तं राम-मित्यन्वयः ।
  9. आयसै:-व. अ.
  10. रोषतस्पराः -कोषपरवशाः- गो. रोषेण रामहननपरा इति वा ।