पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४ सर्ग:]
171
सधनुनिययौ रामः कालाग्निरिव संज्वलन्



 इदानीं मया उच्यमानं इदं वाक्यं त्वया प्रतिकूलितुं त्वत्कर्तृक- प्रातिकूल्यवर्तनं नेच्छामि, आर्ष: तुमुन् अभिन्नकर्तृके, उक्तमेव कुरु इत्यर्थः । भगवान् कार्यगौरवं विज्ञाय लक्ष्मणस्य [१] तत्र प्रविवक्षां वारयति आज्ञापुरःसरं अविलम्बाय-शापित इत्यादि ॥ १३ ॥

 [२]त्वं हि शूरथ बलवान् हन्या घेतान् न संशयः ।
[३]स्वयं तु हन्तुमिच्छामि सर्वानेव निशाचरान् ॥ १४ ॥
एवमुक्तस्तु रामेण लक्ष्मणः सह सतिया ।
शरानादाय चापं च गुहां दुर्गा समाश्रयत् ।। १५ ।।

 दुर्गा गुहामिति । इतरैः गन्तुमशक्यां गिरिगुहामित्यर्थः ॥

तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया ।
[४] हन्त ! [५] निर्युक्तमित्युक्ता रामः कवच [६] माविशत् ॥ १६ ॥

 इन्त हर्षे । निर्युक्तं इन्त -- शीघ्रं अस्मदुक्तं निगूढं संपादित- मित्युक्ता रामः कवचं आविशत्-- प्रतिमुक्तवान् इति यावत् ॥ १६ ॥

स तेनाग्निनिकाशन कवचेन विभूषितः ।
बभूव रामः [७] तिमिरे [८]विधूमोऽग्निरिवोत्थितः ।। १७॥



  1. तत्र युद्धे इत्यर्थः ।
  2. त्वन्निवर्तनं न त्वदशक्तया, किन्तु मुनिभ्यः प्रतिज्ञाना-मयैव तद्वधः कर्तव्य इत्याशयेनाह--त्वं हीति-गो. यद्यपि इन्द्रजिदूध: लक्ष्मणेनैव,अथापि दण्डकारण्यस्थमुनिभ्यः तत्रत्यराक्षसवधस्यैव प्रतिज्ञानात् एवमुक्तिरिति तस्य आशयः ॥
  3. अहं तु ङ.
  4. इन्तेति हर्षे नियुक्तं- निश्चयेन उपायश्चिन्तित इत्यर्थ:- गो.'निश्चिन्तं' इति वाऽर्थः ।
  5. निर्यामि चेत्युक्ता-ङ.
  6. मादवत्- ङ.
  7. तिमिरेऽग्निरिवेत्यन्वयः । तेन प्रकाशाधिक्यं, तिमिरवत् रामेण रक्षसां नाशश्व कथ्यते ।
  8. महाननि-ज.