पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३ सर्ग:]
161
खरोऽपि निर्ययो रोग तदैव सपरिश्छद:



प्रवृद्धमन्युस्तु खरः खरखनः
रिपोर्वधार्थं त्वरितः यथाऽन्तकः ।
अचूचुदत् सारथिमुन्नदन घनं
 [१] महाबलो मेघ इवाश्मवर्षवान् ।। २६ ।।

 इत्यायें श्रीमद्रामायणे वाल्मीकीये अरण्यकाण्डे द्वाविंशः सर्गः


 [२]सर(२७) मानः सर्गः ॥ २६ ॥

 इति श्रीमद्रामायणा मृतकतकटीकाय अरण्यकाण्डे द्वाविंशः सर्गः


त्रयोविंशः सर्गः

[ उत्पातदर्शनम् ]

[३] [४]' तस्मिन् याते जनस्थानात् अशिवं शोणितोदकम् ।
[५]अभ्यवर्षन्महा [६]मेघाः तुमुलाः गर्दभारुणाः || १ ||

 अथ युद्धाय प्रस्थितस्य खरस्य महोत्लाताः वर्ण्यन्ते-- तस्मिन्नित्यादि । अस्यवर्षन्निति पदम् । गर्दभारुणा: - धूसर-वर्णाः ॥ १ ॥



  1. महाबलः–झन्झामारुतः ‘झन्झावातो महाबलः' इति निघण्टुः, तद्वान्; अशं
    माथच् । झन्झामारुतप्रेरित इत्यर्थः । महानिल इत्याप पाठः । अशमवर्षवान् अइम-
    वर्षीयुक्त इत्यर्थः । घनं - उपरितनमेघम् - गो. अन्तऋश्च अहमवर्षवान् - उपलवर्षण-
    शील:, उन्नदन् मेघ इव च सारथि पुनः अचूचुदत्-रा. अश्मवर्ष:- वर्षे पलवर्षण
    बाघनं यथा तथा वर्षोपलवर्षणशीलो मेघ इवेति वाऽर्थः ॥ 'उन्नदन् पुन: ' इति पाठे,
    पुन: अचूचुददित्यन्वयः ।
  2. व्याख्यादृष्टया एकः श्लोको न दृश्यते ।
  3. 'तत्प्रयातं बलं पोर' इति (ति) पाठे प्रयातं बलं मेघा: शोणितोदकं अभ्यवर्षन्-इत्यन्वयः ।
  4. तत्प्रयातं बलं घोरं-व. ज.
  5. अभ्यवर्षन्महाघोर: तुमुलो गर्दभारुणः इति (ति) पाठे-मेघ इति शेषः ।
  6. घाराः-व. ज.