पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
152
[अरण्यकाण्ड:
खरसन्धुक्षणम्



 [१]अत्रापि वृत्तान्तस्य संक्षेपतः कवेः कथनं - निपातितानि-त्यादि । दृश्य-दृष्ट्वा । शर (२५) मानः सर्गः ॥ २५ ॥

 इति श्रीमद्रामायणामृतकतकटीकायां अरण्यकाण्डे विंशः सर्गः



एकविंशः सर्गः

[खरसन्धुक्षणम् ]


स पुनः पतितां दृष्ट्वा क्रोधात् शूर्पणखां [२]खरः ।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥ १ ॥

 अथ वृत्तान्त कथनपूर्वं शूर्पणखया खरप्रोत्साहनम् । स पुनरित्यादि । अनर्थार्थमिति । स्वकुलस्येति शेषः ॥ १ ॥

 [३]मया त्विदानीं शूरास्ते राक्षसाः रुधिराशनाः ।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थ रुद्यते पुनः ॥ २ ॥
भक्ताश्चैवानुरक्ताश्च [४] हिताश्च मम नित्यशः ।
 [५][६]घ्नन्तोऽपि न निहन्तव्याः न न कुर्युः वचो मम ॥ ३ ॥

 न कुर्युरिति न ॥ ३ ॥

किमेतत् श्रोतुमिच्छामि कारणं यत्कृते पुनः ।
हा नाथेति विनिर्दन्ती सर्पवकुठसि क्षितौ ॥ ४ ॥



  1. अत्रापीत्यनेन पूर्वसर्गान्ति मश्लोकोऽप्ये तम्याख्यातृसम्मत इति स्पष्टम् ।
  2. पुन:- ज.
  3. गतास्त्विदानी-खु.
  4. मीताथ-ड.
  5. परैर्हन्य-माना अपि ये न हन्यन्ते-न हन्तुं शक्यन्ते-ति. एतेन तत्कर्म कवधशङ्का नास्तीति
    सूचितम् रा. पतद्वयाख्ययोः 'हन्यमाना न हन्यन्ते' इति पाठ: सम्मतः । यथाश्रुतपाठे-परान् मन्तोऽपि तैः हन्तुं न शक्या इत्यर्थः ।
  6. 'इन्यमाना न इन्यन्ते-ज.