पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
148
अरण्यकाण्ड:
चतुर्दशरक्षोवधः



 अथ स्वरेण प्रभुत्वात् रामे मानुषबुद्धित्वाच प्रेषितान [१] चतुर्दश- प्रधानानां सेनानीनां संहारः । ततः शूर्पणखेत्यादि ॥ १ ॥

ते रामं पर्णशालायां उपविष्टं महाबलम् ।
ददृशुः सीतया सार्ध [२].[३]वैदेह्या लक्ष्मणेन च ॥ २ ॥
[४]तान् दृष्ट्वा राघवः श्रीमान् [५]आगतां तां च राक्षसीम् ।
अब्रवीत् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥ ३॥
मुहूर्त भव, सौमित्रे ! सीतायाः प्रत्यनन्तरः ।
इमानिस्याः वधिष्यामि पदवीमागतानिह ॥ ४ ॥

 प्रत्यनन्तरः - प्रत्यासन्नः - रक्षक इति यावत् ॥ ४॥

वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः ।
तथेति लक्ष्मणो वाक्यं रामस्य प्रत्यपूजयत् ॥५॥
राघवोऽपि महच्चापं चामीकरविभूषितम् ।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥ ६ ॥
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।
प्रविष्टौ सीतया सार्धं दुश्वरं दण्डकावनम् ॥ ७ ॥
फलमूलाशनौ दान्तौ तापसौ [६].धर्मचारिणौ ।
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ [७]॥ ८ ॥

 किमर्थमुपहिंसथेति । हिंसिः श्वे, वा णौ च । णिजभावपक्षे यथाप्राप्तशबेव, न तदपवादः नः । नौ इति शेषः ॥ ८ ॥



  1. अस्याः पदवीमागतानित्यन्वयः । शूर्पणखे अस्मान् बाधितुमागतानिति भावः । अनयाऽऽनीतानिति वाऽर्थः ।
  2. लक्ष्मणेनापि सेवितम्-ज
  3. वैदेया इति सीताविशेषणम्
  4. ' तां दृड्डा राघव: श्रीमान् आगतांस्तां राक्षसान्'-ज.
  5. आगतान्-ड.
  6. ब्रहचारिणौ-ज
  7. अनपराधिहिंस अधर्म इति भावः । यद्यपि शूर्पणखाविरूपणप्रतीकारकरणार्थमेते आगता: ; तथाऽपि
    राक्षससमुदायोद्देशेनेयमुक्तिः । शूर्पणखा हि अकारणमेव रामादीन् पीडयामास ।