पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
146
[अरण्यकाण्ड:
खराक्रोश:



ताभ्यामुभाभ्यां संभूय [१] प्रमदामधिकृत्य ताम् ।
इमामवस्थां नीताऽहं यथाऽनाथाऽसती यथा ॥ १८ ॥

 ताभ्यामित्यादि । तां प्रमदां अधिकृत्य-निमित्तीकृत्य, ताभ्यां उभाभ्यां संभूय – एकनियुक्तया एकेन, इमां अवस्थां यथा अनाथा असती- कुलटा नीता भवति तथा अहं नीता ॥ १८ ॥

तस्याश्चानृजुवृत्तायाः तयोश्च हतयोरहम् ।
सफेनं पातुमिच्छामि रुधिरं रणमूर्धनि ॥ १९ ॥
एप मे प्रथमः कामः कृतः, स्तात ! त्वया भवेत् ।
तस्याः तयोश्च रुधिरं पिबेयमहमाहवे || २० ||

 तस्याश्चेति । इताया इति विपरिणामः । उक्तार्थस्यैव उत्कण्ठाद्योतनाय पुनर्वचनं - एष म इत्यादि ॥ २० ॥

इति तस्यां ब्रुवाणायां चतुर्दश महाबलान् ।
व्यादिदेश खरः क्रुद्धः राक्षसान् अन्तकोपमान् ॥ २१ ॥
मानुषौ शस्त्र संपन्नौ चीरकृष्णाजिनाम्बरौ ।
प्रविष्टौ दण्डकारण्यं घोरं प्रमदया सह [२] ॥ २२ ॥
तौ हत्वा तां च दुर्वृत्तां [३] [४]उपावर्तितुमर्हथ ।
इयं च रुधिरं तेषां भगिनी मम पास्यति ॥ २३ ॥

 इयं च भगिनीत्यन्वयः ॥ २३ ॥



  1. स्वेन तस्या अपहरणादेव विरूपकरणात् तां निमित्तीकृत्येत्युक्ति: । अथ वा ' स्वापेक्षया सीतायाः सुन्दरीवात् किल तस्या हरणे प्रवृत्ताऽहं विरूपिता' इति भावो बा। एवं सति सीतासौन्दर्यवर्णनमपि प्रकृतं युज्यते ।
  2. एतदनन्तरं - 'युष्मा मिस्तौ निहन्तन्यौ सहसा तापसाविमौ '- इत्यधिकम् - झ
  3. अपवर्तितुं - आनेतुम् ।आनयनप्रयोजनमाह - इयं चेति - गो.उपावर्तितुं - हन्तुं - रा. मत्समीपं प्रापयितुं वा । अनुजुवृत्ताया इति शूर्पणखया उक्तत्वात् दुर्वृत्तामिति ।
  4. अपावर्तितुं - ङ.