पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
144
[ अरण्यकाण्डः
खराक्रोश:



[१]न हि पश्याम्यहं लोके यः कुर्यात् मम विप्रियम् ।
[२] अन्तरेण सहस्राक्षं महेन्द्रं पाकशासनम् ॥ ७ ॥

 अथ संभावितमरिं स्वयमेव निश्चित्याह - न हीत्यादिना ॥ ७ ॥

अद्याहं मार्गणैः प्राणान् आदास्ये जीवितान्तकैः ।
सलिले क्षीरमासक्तं निष्पिबन्निव सारसः ॥ ८ ॥

 तृपया निष्पिचन् सारसो हंसः सलिले मासक्तं संबद्धं क्षीरमिव प्राणानादाम्ये इत्यन्वयः ॥ ८ ॥

निहतस्य मया संख्ये शरसंकृत्तमर्मणः ।
सफेनं रुधिरं रक्तं मेदिनी कस्य पास्वति ॥ ९ ॥

 शरेण संकृतानि मर्माणि यस्य स तथा । सफेनमिति - प्राणवियोगकालप्रवृत्तफेनसहितं, अपि च कर्णकर्तनक्षणे दीर्घघारं रक्तं सफेनं सोष्णं च भवति । रक्तं -' रञ्ज रोग ' निष्ठा । अनिदिवां' इति नलोपः । भुवि सक्त्ं इत्यर्थः ॥ ९ ॥

कस्य [३]पत्ररथाः कायात् मांसमुत्कृत्य सङ्गताः ।
प्रहृष्टा भक्षयिष्यन्ति निहतस्य मया रणे ।। १० ।।

 सङ्गताः- परस्परसमेताः ।। १० ।।

तं न देवा न गन्धर्वा न पिशाचाः न राक्षसाः ।
[४] मयाऽपकृष्टं कृपणं शक्तास्त्रातुमिहाहवे ॥ ११ ॥



  1. अत्र तमित्यध्याहार्यम् । तस्य गर्वविशेषद्योतनाय इन्द्रस्य विशेषणद्वयम्-गो.
  2. अमरेषु-ङ. ज
  3. पत्ररथा:-पक्षिण: गृध्रादयः ।
  4. इह अचैव आहवे अपक्कं-आक्कष्टम् ।