पार्श्वत इति । स्थितमिति शेषः । कर्णनासे इति सर्वतः पाङ्कः । कर्णश्च नासा च कर्णनासे । सर्वो द्वन्द्वो विभाषैकवत्' इति वार्तिके सर्वशब्दस्य 'द्वन्द्वश्च प्राणि' इत्यादिना नित्यविहितैकवद्भावद्वन्द्व- स्थलेऽपि पाक्षिकत्वप्रापणप्रयोजनत्वात् एकवद्भावाभावः ॥ २१ ॥
निकृत्तकर्णनासा तुःविस्वरं सा विनद्य च ।
यथाऽऽगतं प्रदुद्राव घोरा शूर्पणखा वनम् ॥ २२ ॥
साविरूपा महाघोरा राक्षसी शोणितोक्षिता ।
ननाद विविधान् नादान् यथा प्रावृषि तोयदः ॥ २३ ॥
सा विक्षरन्ती रुधिरं बहुधा घोरदर्शना ।
प्रगृह्य बाहू गर्जन्ती प्रविवेश महावनम् ॥ २४ ॥
प्रगृह्येति । इह सर्वत्र उद्यमार्थ: प्रग्रहशब्दः । उद्यम्य ॥ २४ ॥
ततस्तु सा राक्षससंघसंवृतं
खरं जनस्थानगतं विरूपिता ||
उपेत्य तं भ्रातरमुग्र
[५]दर्शनं
पपात भूमौ गगनाद्यथाऽशनिः ॥ २५ ॥
यथा अशनिः—अशनिरिव गगनात् भूमौ पपात ।।२५ ।।