एतत् पृष्ठम् अपरिष्कृतम् अस्ति
१७ सर्ग: ]
131
तत्र शूर्पणखा नाम राक्षसी काचिदाययौ
इत्याषें श्रीमद्रामायणे वारमीकी ये अरण्यकाण्डे षोडशः सर्गः
वेग (४३) मानः सर्गः ॥ ४३ ॥
इति श्रीमद्रामायणामृतकतकटी कायां अरण्यकाण्डे षोडशः सर्गः
सप्तदशः सर्गः |
[ शूर्पणखाऽऽगमः ] |
[६]कृताभिषेको रामस्तु सीता सौमित्रिरेव च ।
तस्मात् गोदावरीतीरात् ततो जग्मुः स्वमाश्रमम् ॥ १ ॥
- ↑ स्तुवन्ति स्म - उपतस्थिरे, 'मित्रस्य ' इत्यादिमन्त्रैः, सीता तु अमन्त्रेण - गो.
- ↑ तथाऽनघा:- ङ. ज.
- ↑ कृताभिषेक स्त्वगराज - ङ.. ज.
- ↑ रुद्रः सनन्दीत्युपमया दुष्प्रघर्षणत्वमुच्यते । ‘रुद्रः सविष्णुर्भागवानिवेश: '
इति न क्वचिदपि कोशे दृश्यते । कश्चित्तु दृश्यत इत्याह । तदा अभूतोपमेति युक्तम्- गो.
रुद्रोपमया संहाराविष्टचित्तत्वं दर्शयति-ति. - ↑ सविष्णुः - ज. झ.
- ↑ एवं रामतपोविशेषद्योतनाय हेमन्तं प्रथम प्रवृत्तमुपवर्ण्य ततस्त्रिषु संवत्सरेवती तेषु कदाचित् चैत्रमासे प्रसक्तं भाविसकलराक्षस-बधनिदानस्वेन शूर्पणखावृत्तान्तमुपक्षिपति-गो. " एवं संवसतस्तस्य मुनीनामाश्रमेषु वै । रमतश्चानुकूल्येन ययुः संवत्सरा दश (अर. 11-28) इति कथितत्वात्,सीतापहरणकाले वनवासस्य एकवत्सरमात्र परिशेषावगमाच्च 'ततः त्रिषु संवत्सरेष्वतीतेषु'इत्युक्तम् ।