पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
122
[अरण्यकाण्ड:
हेमन्तवर्णनम्



 अथ भाविशूर्पणखादर्शना नर्थकालप्रदर्शनशेषतया हेमन्त वर्णनं कवेः । वसतस्तस्येत्यादि । इष्ट इति। तपस्साघनेष्टः, रामस्य चेष्ट इत्यर्थः ॥ १ ॥

स कदाचित् [१] प्रभातायां शर्वर्या रघुनन्दनः ।
प्रययावभिषेकार्थं रम्यां गोदावरी नदीम् ॥ २ ॥
प्रहः कलशहस्तस्तं सीतया सह वीर्यवान् ।
पृष्ठतोऽनुव्रजन् भ्राता सौमित्रिरिदमब्रवीत् || ३ ||

 तं अनुव्रजन् इत्यन्वयः ॥ ३ ॥

अयं स कालः संप्राप्तः प्रियो यस्ते, प्रियंवद !
[२]अलङ्कृत इवाभाति येन संवत्सरः शुभः ।। ४ ।।

 येन- हेमन्तकाले नेत्यर्थः [C || ४ ||

नीहारपरुषो [३]. लाकः पृथिवी सस्य [४].शालिनी ।
जलान्यनुपभोग्यानि सुभगो हव्यवाहनः ।। ५ ।।

  नीहारपरुषः इति । नीहारेण परुषत्ववान् इत्यर्थः । सुमगः इति । इष्ट इत्यर्थः ॥ ५ ॥

[५] नवाग्रयणपूजाभिः अभ्यर्च्य पितृदेवताः ।
कृताग्रयणकाः काले सन्तो विगतकल्मषाः ॥ ६ ॥



  1. प्रभातायां विरामोन्मुखायां- गो.
  2. येन हेमन्तेन सुपक्कसस्यादिसंपशेन शुभरसन्नयं संवत्सर: अलङ्कृतो यद्यपि, तथाऽपि तव अतिसुकुमारस्य प्रिय इवाभाति किमिति योजना । य: हेमन्तकाल: ते प्रियः, येन हेमन्तेन संवत्सर: शुभस्तन् अलंकृत इवाभाति अयं काल: संप्राप्त इति योजना-ती.
  3. लोक:- जन: नीहारेण-हिमेन परुष:-परुषत्वक् - - गो
  4. मालिनी- ङ
  5. आग्रयणं नाम कश्चित् हविर्यश: नूतनधान्यभोजनस्यादावनुषेयः-आग्रयणरूप-पूजाभिः पितृदेवता अभ्यर्च्य कृताम्रयणकाः, न तु कृताग्रयणप्रतिनिधयः- गो. कृतानि-पूर्वकालेषु संपादितानि आग्रयणानि येस्ते-रा.