एतत् पृष्ठम् अपरिष्कृतम् अस्ति
116
अरण्यकाण्ड:
पञ्चवटीनिवासः
वनस्य रामण्यकं रमणीयता तथा ॥ ५ ॥
एवमुक्तस्तु रामेण लक्ष्मणः संयताञ्जलिः ।
[३]सीतासमक्षं काकुत्स्थं इदं वचनमब्रवीत् || ६ ||
संयताञ्जलिरिति-बद्धाञ्जलिपुटः इति यावत् ॥ ६ ॥
परवानसि, काकुत्स्थ ![४] त्वयि वर्षशतं स्थिते ।
स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥ ७ ॥
त्वयि वर्षशतं स्थित इति । चिरकालं भूष्णौ सतीत्यर्थः ॥ ७ ॥
- ↑ वनरामण्यकं कुसुमामिलाषिण्याः सीताया रतिहेतुः । स्थलरामण्यकं सुखशय-
नादिकाङ्क्षिणो रामस्य । सन्निकृष्टसमिदादिमत्त्वं शुश्रूषमाणस्य सौमित्रेः- गो. - ↑ जलोदकं ङ.
- ↑ न च सीता त्वया हीना नचाहमपि, राघव! मुहूर्तमपि जीवावः जलान्मत्स्याविबोद्धृतौ ।
इति आत्मनः सीतावत् पूर्णशेषत्वानुसन्धानसूचनायेदम्। - ↑ त्वयि बर्षशतं स्थित इति शतशब्द आनन्त्यवचनः, सार्वकालिकं मम
पारतन्त्र्यमिति भावः । एवं पारतन्त्र्यस्यैव मत्स्वरूपत्वेन तदनुकूलतया त्वया
आशापने कर्तव्यमित्याह - स्वयमिति - गो. त्वयि स्थिते सत्यहं परवानस्मि ।
अतः स्वयमेव रुचिरे देशे क्रियतां पर्णशाला' इति शेष: । इति वर्षशतम
नेकखण्ड विस्तारकं मां वद - रा. - ↑ महाद्युतिः-ड..
- ↑ सदृशं ङ.