पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
94
[ अरण्यकाण्ड:
अगस्त्य सन्दर्शनम्



 सत्कृत इति । आचारोपचारव्यवहारैः इति शेषः । किं चासौ न प्रवेशितः इति। कस्माद्धेतोः विलम्बः कृतः इत्यर्थः ॥ ११ ॥

एवमुक्तस्तु मुनिना धर्मज्ञेन महात्मना ।
[१]अभिवाद्याब्रवीत् शिष्यः तथेति नियताञ्जलिः ॥ १२॥

 अभिवाद्येति । गमननियोगप्रयुक्तं पुनश्चाभिवादनं कृत्वत्यर्थः ॥

ततो निष्क्रम्य संभ्रान्तः शिष्यो लक्ष्मणमब्रवीत् ।
क्वासौ रामो मुनिं द्रष्टुं एतु प्रविशतु स्वयम् ॥ १३ ।

 स्वयं प्रविशत्विति । नास्य शिष्यमुखापेक्षा, भगवता अवगतरामवृत्तत्वादिति शेषः ।। १३ ।।

ततो गत्वाऽऽश्रमद्वारं शिष्येण सह लक्ष्मणः ।
दर्शयामास काकुत्स्थं सीतां च जनकात्मजाम् ॥ १४ ॥

 काकुत्स्थं दर्शयामास । आश्रममिति शेषः । 'गतिबुद्धि' इत्यादिना द्विकर्मकत्वम् ॥ १४ ।।

तं शिष्यः प्रश्रितो वाक्यं अगस्त्यवचनं ब्रुवन् ।
प्रावेशयद्यथान्याय्यं सत्कारार्ह सुसत्कृतम् ।। १५ ।।

 उच्यते इति वचनं, अगस्त्यवचनं-अगस्त्योक्तं वाक्यं ब्रुवन् ।

प्रविवेश ततो रामः सीतया सहलक्ष्मणः ।
प्रशान्तहरिणाकीर्ण आश्रमं ह्यवलोकयन् ।। १६ ॥



  1. किञ्बासौ न प्रवेशितः' इति ऋषिणाऽधिक्षिप्तत्वादभिवादनादिकम् ।
    "अत दम उत्तरण 'संभान्त:' ' प्रविशतु स्वयम् ' श्लायुक्तिः ।।