पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
82
[ अरण्यकाण्डः
आश्रममण्डलवास:



यदि बुद्धिः कृता द्रष्टुं अगस्त्यं तं महामुनिम् ।
[१] अद्यैव गमने बुद्धि रोचयस्व, महायशः ! ॥ ४३ ॥

इति रामो मुनेः श्रुत्वा सह भ्रात्राभिवाद्य च ।
प्रतस्थेऽगस्त्यमुद्दिश्य सानुजः सीतया सह ॥ ४४ ।।

 मुनेः श्रुत्वा इति । वचनमिति शेषः ॥ ४४ ॥

पश्यन् वनानि रम्याणि पर्वतांश्चाभ्रसंनिभान् ।
सरांसि सरितश्चैव पथि मार्गवशानुगान् ॥ ४५ ॥

 अगस्त्यमुद्दिश्य-अगस्त्याश्रममुद्दिश्येति यावत् ॥ ४५ ॥

सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ।
इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ।। ४६ ।।

एतदेवाश्रमपदं नूनं तस्य महात्मनः ।
अगस्त्यस्य मुनेः भ्रातुः दृश्यते पुण्यकर्मणः ॥ ४७ ॥

यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः ।
सन्नताः [२]फलभारेण पुष्पमारेण च द्रुमाः ॥ ४८ ॥



  1. राक्षसवधाय अगस्त्यसकाशात् वैष्णवधनुः प्रभृतीनां (१२-३२) गृहीतव्यत्वात्,
    तज्नानन् सुतीक्ष्णः स्वयमेव राममगस्त्याश्रमं गन्तुं विवक्षुरासीत इति 'अहमप्येतदेव त्वां
    वक्तुकामः' इत्यत्र सूचितम् । परन्तु नियातिथि प्रति स्वयं प्रस्थानं वक्तुमनिच्छन्नासीत, यदा
    च रामेणैव पृष्टं तदा स एव त्वरयति — अद्यैवेति ॥
  2. बहु पुष्पफले' (३०) इति
    सुकं पूर्वम् ।