पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्ग:]
77
एवं ते ददृशुः सर्वान् आश्रमांस्तु तपस्विनाम्



आश्चर्यमिति तस्यैतत् वचनं भावितात्मनः ।
राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ॥ २० ॥

[१]एवं कथयमानस्य ददर्शाश्रममण्डलम् ।
कुशचीरपरिक्षिप्तं ब्रह्मलक्ष्म्या समावृतम् [२]॥ २१ ॥

 ब्रह्मलक्ष्म्या ब्रह्मविद्यानुष्ठानजा लक्ष्मीः तथा। ब्रह्मवर्चसमिति यावत् ॥ २१ ॥

तथा तस्मिन् स काकुत्स्थः श्रीमत्याश्रममण्डले ।
उपित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ।। २२ ।।
[३]जगाम चाश्रमांस्तेषां पर्यायेण तपखिनाम् ।
येषामुपितवान् पूर्व सकाशे स महास्त्रवित् ॥ २३ ॥

 आश्रममण्डले उषित्वति । एकस्याश्रम इति शेषः । एवं पर्यायेण सर्वेषां तपस्विनां आश्रमांश्च जगाम । अपि च येषामृषीणां सकाशे पूर्वं उषितवान्, पुनरपि तेषामाश्रमान् जगाम, तद्भकथति- शयवशात् । यथा सुतीक्ष्णाश्रमं प्रति पुनरागमनम् ।।२२-२३॥



  1. एतदर्थस्थाने एवं कथयम नस्य सह भ्रात्रा महामुनेः ॥ अग्रतो रमणीयं च
    ददशांश्रममण्डलम्' इति पाठ:- ङ,
  2. एतदनन्तरं ' प्रविश्य सह वैदेया लक्ष्मणेन च राम: उवास
    मुनिभिः सर्वैः पूज्यमानो महायशाः ॥' इत्यधिकं- इ. झ.
  3. शरमहाश्रमादारभ्यैव यैः सह एतावन्तं कालमुषितवान् (यैश्चार्य आहूतः
    इत्यर्थसिद्धम् ) तेषां तपस्विनामाश्रमान् पर्यायेण कमतः जगाम-इत्यर्थः ।
    एवञ्च सर्वेषामाश्रमाण पर्यायेण - द्वितीयपर्यायेण जगामेति न व्याख्यान केशः।
    एवं सत्येव पूर्व सुतीणेन आगन्तथ्थं न ते द्रुष्तट्वा पुनरेवाश्श्रमं मम (8.16)
    इति, 'सुतीक्ष्णस्था-समपदं पुनरेवाजगाम ह' इति च स्वरसतः सङ्गच्छेत ।
    अत एवात्रापि “ येषां आश्रमे पूर्व' इत्यनुक्ता, 'येषां सकाशे पूर्व
    इत्युक्तिरपि स्वरसा ॥