पृष्ठम्:श्रीमद्वाल्मीकिरामायणम् (अमृतकतकव्याख्यायुतम्) (चतुर्थः भागः - अरण्यकाण्डः).pdf/१०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
११ सर्ग:]
73
वतस्तु ते त्रयः रम्यान् आश्रमान् कमशो ययुः


एकादशः सर्गः

[आश्रममण्डलवासः]

[१]
अग्रतः प्रययौ रामः सीता मध्ये सुमध्यमा ।
पृष्ठतस्तु धनुष्पाणि: लक्ष्मणोऽनु जगाम ह ॥ १ ॥

 अथ मार्गे माण्डकर्णिकथाश्रवणपूर्व आश्रममण्डलं प्राप्तस्य दशवर्षवासानन्तरं पुनः सुतीक्ष्णं प्राप्य तद्वचनात् अगस्त्यम्रात्रगस्त्या- श्रमसंप्राप्तिः ।अग्रत इत्यादि ॥ १ ॥

तौ पश्यमानौ विविधान् शैलप्रस्थवनानि च ।
नदीच विविधा रम्याः जग्मतुः सह सतिया ॥ २ ॥

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।
सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥ ३ ॥

[२]यूथबन्धांच पृपतां मदोन्मत्तान् विषाणिनः ।
महिपांच वराहांश्च नागांश्च [३] द्रुमवैरिणः ।। ४ ।

 जलजाः खगाः- दात्यूहादयः । यूथबन्धान्- यूथतया बन्धः संबन्धः तथा । पृष्ठामिति षष्ठी । विषाणिनः महिषान् इति विशेषणविशेष्यभावेनान्वयः ॥ ४ ॥



  1. यद्यप्ययोध्याकाण्डे वनप्रवेशवेलायां 'अग्रतो गच्छ सौमित्रे ! सीता नुगच्छतु ।
    पृष्ठतोऽहं गमिष्यामि त्वां च सीतां च पालयन् ॥' (५२ - ९६ ) इत्युक्तम् ।
    अत्र तु 'अग्रतः प्रययौ रामः..लक्ष्मणोऽनुजगाम ह' इति वैचित्र्यमस्ति-- परन्तु 'अवश्य रक्षण कार्य अदृष्टे बिजने बने' (५२-९५) इति तत्रस्यं पूर्वतनवाक्यं
     जगाम म्याणि तपोवनानि (२०-२२) इति अत्रत्यं पूर्वतनवाक्यं चावधेयम् । अत्र हि शरभङ्गाश्रमप्राप्त मुनिभिराहूतः तैः सह तेषामाश्रमाणि खलु गच्छति
    रामः । अत एवानुपदं स्वानुयायिधम भृन्ना नकमुनिना संवाद (श्लो. ८) अतोऽत्र स्वस्यैव पुरतो गमनम् । अधिकं परस्तात् ॥।
  2. यूथबद्धांच पृषतान्-ङ.
  3. द्वमभञ्जकत्वात् तद्वैरित्वं गजानाम् ।