पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

10 श्रीमद्भगवद्गीता गोतार्थसंग्रहोपेतां येषामर्थे कांक्षितं दो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३२ ॥ आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौवाः स्पालाः संबन्धिनस्तथा ॥ ३३ ॥ एतान्न हन्तुमिच्छामि नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किमु महीकृते ॥ ३४ ॥ न च श्रेयोऽनुपश्यामीत्यादि । 'अमी आचार्यादय' इति विशेषबुद्धया। बुद्धौ आरोप्यमाणाः वधकर्मतया अवश्यं पापदा- यिनः । तथा 'भोगसुखादिदृष्टार्थमेतद्युद्धं क्रियते' इति बुद्धधा क्रियमाणं युद्धे वध्यहननादि तदवश्यं पातककारि इति पूर्वपक्षा- भिप्रायः । अत एव स्वधर्ममावतयैव कर्माणि अनुतिष्ठ, न विशेषधियेति उत्तरं दास्यते ॥ ३०-३४ ॥ निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्याज्जनार्दन ॥ ३५ ॥ पापमेवाश्रयेदस्मान् हत्वैतानाततायिनः । तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान स्वबान्धवान् || ३६ ॥ स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ।। यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥ कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ।। ३९ ।। 1 B.N शेषबुद्धचा 2. S युद्धेषु वध्य-; K युद्धेष्ववध्य -