पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

6 संजय उवाच -- दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसंगम्य राजा वचनमब्रवीत् ॥ २ ॥ पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥ अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥ धृष्टकेतुमेकितानः काशिराजश्च वीर्यवान् । पुरुजिस्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ॥ ५ ॥ युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥ अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्त्रवीमि ते । सैन्ये महति ये सर्वे नेतारः शूरसंमताः ॥ ७ ॥ भवान् भीष्मश्च कर्णश्च कृपः शल्यो जयद्रथः । अश्वत्थामा विकर्णश्च सौमदत्तिश्च वीर्यवान् ॥ ८ ॥ अन्ये च बहवः शूराः मदर्थे त्यक्तजीविताः । नानाशस्त्र प्रहरणा नानायुद्धविशारदाः ॥ ९ ॥ कि वा अनेन 1बहुपरिगणनेन । इदं तावद्वस्तुतत्त्वम् इत्याह- श्रीमद्भगवद्गीता गीतार्थसंग्रहोपेता - 1. K omits बहु - -