पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशोऽध्यायः अत्र संग्रह श्लोक:- भङ्क्त्वाऽज्ञानविमोहमन्थरमयीं सत्त्वादिभिन्नां धियं प्राप्य स्वात्मविबोधसुन्दरतया ! विष्णुं विकल्पातिगम् । यत्किञ्चित् स्वरसोद्यदिन्द्रियनिजव्यापारमावस्थिते (तो?) हेलातः कुरुते तदस्य सकलं संपद्यते शंकरम् || || इति श्रीमहामाहेश्वराचार्यवर्य राजानकाभिनवगुप्तपाद- विरचिते श्रीमद्भगवद्गीतार्थसंग्रहे अष्टादशोऽध्यायः ॥ [आचार्यप्रशस्तिः ] 2 श्रीमान् कात्यायनोऽभूद्वररुचिसदृशः प्रस्फुरद्वोधतृप्त- स्तद्वंशालंकृतो यः स्थिरमतिरभवत् सौशुकाख्योऽतिविद्वान् । विप्रः श्रीभूतिराजस्तदनु समभवत् तस्य सूनुर्महात्मा येनामी सर्वलोकास्तमसि निपतिताः प्रोद्धृता भानुनेव ।।१।। तच्चरणकमलमधुपो भगवद्गीतार्थसङ्ग्रहं व्यदधात् । अभिनवगुप्तः सद्विज- 3 लोटककृतचोदनावशतः ॥ २ ॥ 281 अत इदमयथार्थं वा यथार्थमपि सर्वथा नैव । 1. K स्वात्मविभूत- 2. S श्रीमत्कात्यायनो- 3. S लोठककृत- BN लोककृत-