पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टादशोऽध्यायः सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ ५६ ॥ चेतसा सर्वकर्माणि मयि संन्यस्य भारत । बुद्धियोगं समाश्रित्य मच्चित्तः सततं भव ॥ ५७ ॥ मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि । अथ चेत् त्वमहंकारं न मोक्ष्यसि विनंक्ष्यसि ॥ ५८ ॥ यदहंकारमाश्रित्य न योत्स्य इति मन्यसे । मिथ्यैव व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ॥ ५९ ॥ स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा । कर्तुं नेच्छसि यन्मोहात् करिष्यस्यवशोऽपि तत् ॥६०॥ ब्राह्मणेत्यादि अवशोऽपि तत् इत्यन्तम् । ब्राह्मणादीनां कर्मप्रविभागनिरूपणस्य स्वभावोऽवश्यं नातिक्रामति इति क्षत्रियस्वभावस्य भवतोऽनिच्छतोऽपि प्रकृतिः स्वभावाख्या नियोक्तृताम् अव्यभिचारेण भजते । केवलं तया नियुक्तस्य पुण्यपापसंबन्धः । अतः मदभिहितविज्ञानप्रमाणपुरःसरीकारेण कर्माण्यनुतिष्ठ । तथा सति बन्धो निवर्त्स्यति । इत्यस्यार्थस्य परिकरघटनतात्पर्यं2 महावाक्यार्थस्य । अवान्तरवाक्यानां स्पष्टा ( ष्टोड) र्थ: । समासेन (श्लो. ५०) संक्षेपेण । ज्ञानस्य, प्रागुक्तस्य । "निष्ठां (ष्ठा)" वाग्जालपरिहारेण निश्चितामाह | बुद्धया 1. S, B, N S, B, N Somits 2. 275 3. omit न and read अतिक्राति करबन्धनघटन- समासेन