पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

266. 1 श्रीमद्भगवद्गीता गीतार्थ संग्रहोपेता शरीरवाङ्मनोभिहि यत्कर्मारभतेऽर्जुन । न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ॥ १५ ॥ तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृत बुद्धित्वान्त्र स पश्यति दुर्मतिः ॥ १६ ॥ यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते । हत्वापि स इमन्लोकात्र हन्ति न निबद्धयते ॥ १७ ।। पञ्चेत्यादि न निबद्धयते इत्यन्तम् । कृतः अन्तः, निश्चयः यत्रेति कृतान्तः, सिद्धान्तः । अधिष्ठानं, विषयः । दैवम्, प्रागर्जितं शुभाशुभम् । पञ्चैते अधिष्ठानादयः सामग्री- रूपतां प्राप्ताः सर्वकर्मसु हेतवः । अन्ये तु, अधिष्ठीयते अनेन सर्वं कर्म इति बुद्धिगतं रजोलब्धवृत्तिकं धृतिश्रद्धासुख विविदिषावि विदिषारूपपञ्चक- परिणामिकर्मयोगशब्दवाच्यमधिष्ठानं क्वचित् प्रयत्नशब्देन उक्तम् । कर्ता, अनुसन्धाता बुद्धिलक्षणः । करणं मनचक्षु- रादि, बाह्यमपि च खड्गादि । चेष्टा प्राणापानादिका । दैव- शब्देन धर्माधमौं; ताभ्यां च बुद्धिगताः सर्वेऽपि भावा उप- लक्षिताः [इति ] । अन्ये तु अधिष्ठानम् ईश्वरं मन्यन्ते । अकृतबुद्धित्वात्, अनिश्चितप्रज्ञतया । यः पुनरहंकार- वियोगदाढर्येन प्रागुक्तयुक्तिशतशोधितेन कर्माणि करोति न स बन्धभाक्', कृतबुद्धित्वात् इत्याशयः ।। १३-१७ ।। 1. B, N न संबन्धमा कु