पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तदशोऽध्यायः 261 'तदैक्षत बहुस्यां प्रजायेयेति, तत्तेजोऽसृजत, तत्तेज ऐक्षत' (छा. उ. VI, ii, 3-4 ) इत्यादि छान्दोग्यश्रुतौ सच्छब्दवाच्ये ब्रह्मणि स्वेच्छ्या स्वातन्त्र्येण बहुधा निजृम्भणम्, पूर्णे च तस्मिन् ब्रह्मणि उक्तम् । एवम् 'तस्माद्वा एतस्मादात्मन आकाशः संभूतः । आकाशात वायुः । वायोरग्निः । अग्नेरापः । अद्भयः पृथिवी । पृथिव्या ओषायः । ओषधीभ्योऽन्नम् । अन्नात् पुरुष (तै.उ. II, 1 ) इति तैत्तिरीयश्रुती च विचिवस्वभावतया भवनमपि प्रति- पाद्यते इति । तदेवं ओम् तत् सत् इति निर्देशानां ब्रह्मणि समन्वयं कृत्वा प्रत्यगात्मनि अनर्गले तदतिदिशति-तेनेत्यादिना अन- र्गलस्य स्वाभाविक रूपमित्यन्तेन ग्रन्थेन । ।। इति श्रीमद्भगवद्गीतार्थसंग्रहटिप्पण्यां सप्तदशोऽध्यायः ॥