पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षोडशोऽध्यायः द्वौ भूतसगौँ लोकेऽस्मिन् दैव आसुर एव च । वैवो विस्तरतः प्रोक्त आसुरं पार्थ मे शृणु ॥ ६ ॥ द्वाविति । एषा दैवी संपदुक्ता 'अभयम्' इत्यादिना ॥ ६ ॥ आसुरीमाह- प्रवृत्ति च निवृत्ति च जना न विदुरासुराः । न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ ७ ॥ - प्रवृत्तिमिति । प्रवृत्ति:- कुत इदमुत्पन्नमिति | निवृत्तिः क्व प्रलीयते इति ।। ७ ।। असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । अपरस्परसंभूत मकिंचित्कमहेतुकम् ॥ ८ ॥ 241 असत्यमिति । न किञ्चित् दृष्टादन्यत् कार्यं विद्यते यत्त्रेति अकिञ्चित्कम् ॥ ८ ॥ एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽशुभाः ॥ ९॥ काममाश्रित्य दुष्पूरं दम्भलोभमदान्विताः । असद्ग्रहाश्रिताः क्रूराः प्रचरन्त्यशुचिव्रताः ॥ १० ।। चिन्तामरिमेयां च प्रलयान्तामुपाश्रिताः । कामोपभोगपरमा एतावदिति निश्चिताः ॥ ११ ॥ आशापाशशतैर्बद्धाः कामक्रोधपरायणाः । ईहन्ते कामभोगार्थानन्यायेनार्थसंचयान् ।। १२ ।। गीता 16