पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वश्वदशोऽध्यायः ॥ श्रीमद्भगवद्गीतार्थसंग्रहटिप्पणी ॥ श्लो. १-२ (व्या) यथा वृक्षस्येत्यादि । एतेनेदं सूचित मिव - 'यस्तं वेद स वेदवित्' इत्यत्र यत्तदोर्व्यत्ययेन 'यो वेद- वित् स तं वेद' इत्यन्वयः, तथा वेदेन वेत्तीति वेदवित् इति विग्रहार्थवाभिप्रेत आचार्येणेति ।। 235 श्लो. ४ (मू) प्रपद्येत् इति रामकण्ठीयः पाठः ।। श्लो. ३-५ (व्या) दण्डी प्रैषानुब्रूयात् इति । प्रसिद्धं विधिस्वरूपं तु 'दण्डी प्रैषानवाह' इति ।। श्लो. ६ (व्या) करणोपकारकत्वादिति । करणानाम् इन्द्रियाणां स्वस्वकार्यकरणे शक्त्यालोकादिप्रदानेन उपकार- कत्वात् इति; करणानि इन्द्रियादीनि उपकारकाणि येषाम् अर्थात् स्वसंवेदने, तेषां भावः तस्मादिति विग्रहाश्रयणेन इन्द्रिय- जन्य ज्ञानविषयत्वादिति वा अर्थः ।। - श्लो. १२-१४ (व्या) यच्चाग्नौ - यत् तेजः वर्तते अग्नौ आश्रयाशे पार्थिवं काष्ठादिकमाश्रित्य प्रकाशमाने । इत्यनेन इत्यनेन श्लोकेन प्राणापानसमायुक्त इति वाक्य- घटितेन । बोधावकाशरूपतया - बोधात्मको योऽवकाशः तत् स्वरूपतया । दीप्त्यर्थकात् काटधातोरवपूर्वकान्निष्पन्नस्य अव- काशपदस्यार्थः अवबोध इति; नभोवाचकाकाशपदस्यापि आ समन्तात् काशयति प्रकाशयति सर्वान् पदार्थान् इति व्युत्पत्ते- श्चेति बोध्यम् ।। श्लो. १५ (व्या) मत्त इति मूलस्याभिप्रायमाह तत एवेति - प्रत्यगात्मनः अहंविमर्शत इत्यर्थः ।