पृष्ठम्:श्रीमद्भगवद्गीता (अभिनवगुप्तव्याख्यासहिता).djvu/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पवादशोऽध्यायः यो मामिति । एवं जानानः सर्वमयं मामेव ब्रह्मतत्त्व- मुपासीनः सर्वं मन्मयत्वेन विदन् सर्वेण भावेन मूर्तिक्रियाज्ञाना- त्मकेन मामेव भजते; यत् पश्यति तत् भगवन्मूर्तितयेत्यादि । तथा च मयैव शिवशक्त्यविनाभावस्तोत्रे- तव च काचन न स्तुतिरम्बिके सकलशब्दमयी किल ते तनुः । निखिलमूर्तिषु मे भवदन्वयो मनसिजासु 2 बहिष्प्ररासु च ॥ इति विचिन्त्य शिवे शमिताशिवे जगति जातमयत्नवशादिदम् । स्तुतिज पार्चन चिन्तनवर्जिता 1. 2. 3. न खलु काचन 'कालकलापि मे ॥ इति ।।१९।। इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ । एतद्बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ॥ २०॥ ॥ इति श्रीमद्भगवद्गीतायां पञ्चदशोऽध्यायः ॥ 233 इतीति । गुह्यतमं, सर्वाद्वयप्रतिपादकत्वात् । एतदेव बुद्ध्वा बुद्धिमत्त्वं, न तु व्यवहारबुद्धया । एतेन च ज्ञातेनैव कृतकृत्यता, न तु कृतेनापि शत्रुविजयार्थाहरणस्त्युपभोगा- दिना । चकारः अद्भुतद्योतकः । कृतेन हि कृतकृत्यता दृष्टा, N का किल B, N बहि प्रसरासु B, N कालकलास्ति B omits शत्रु 4. 5. N एतेन